SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ उपमितौ हितज्ञमू ॥६४३॥ प्रयच्छामो यथेच्छया ॥ ४०० ॥ इत्येवमादिभिर्धमः, कृतकृत्यतया वयम् । भावत्कस्यास्य धर्मस्य, न तप्तिं बत कुर्महे ॥४०१॥ त- चारुयोग्यदिदं मूढकल्पानामभव्यानां प्रभाषितम् । आकर्ण्य मुनयो धीरा, जायन्ते करुणापराः॥ ४०२ ॥ ततस्ते तत्प्रबोधार्थमित्थमाचक्षते हैं तदा । भो भद्रा! नैव युक्तोऽयं, भवतां भवविभ्रमः ॥ ४०३ ॥ "एते हि भोगा नागाना, भोगा इव सुदारुणाः । पर्यन्तकटुकाः पा- ढकथा "पास्तीव्रसंक्लेशवर्धनाः ॥ ४०४ ॥ नार्योऽनार्याः कृताकार्याः, सर्वमायाकरण्डिकाः । विलासनृत्तसङ्गीतविब्बोकाद्या विडम्बनाः॥४०५॥ "मोक्षस्तु भद्राः सततमनन्तानन्दसुन्दरः । जीवस्यात्मव्यवस्थानं, निःशेषक्लेशवर्जितः ॥ ४०६ ॥ मनुष्यभवमासाद्य, तन्न युक्तं भवा| "दृशाम् । खाद्यपेयविलासादिकौतुकेनात्मवञ्चनम् ॥ ४०७ ॥ एतेषु सक्ता भोगेषु, कतिचिद्दिनमाविषु । मा मोक्षमार्गमुत्सृज्य, गच्छ| "तानन्तके भवे ॥ ४०८ ॥ धर्मानुष्ठानबुद्ध्या च, यदिदं मारणादिकम् । यूयं कुरुथ तत्पापं, सर्व संसारवर्धनम् ।। ४०९ ॥ कुशास्त्र"कारमोहेन, मा कुरुध्वमथेदृशम् । अहिंसाद्यात्मकं धर्म, कुरुध्वं दोषसूदनम् ॥ ४१० ॥” अथेदृशं मुनीनां ते, वाक्यमाकर्ण्य पेशलम् । मूढकल्पा जनास्तूर्ण, प्रद्वेषं यान्ति पापिनः ॥ ४११ ॥ वदन्ति च ततो रुष्टा, भो भोः श्रमणका! वयम् । शिक्षणीया न युष्माभिर्यात यात यथाऽऽगताः ॥ ४१२ ॥ भोगान्निन्दथ पापिष्ठा, धर्म चास्मन्निषेवितम् । ततो नो वैरिका यूयं, नेष्यामोऽन्तकमन्दिरम् ।। ४१३ ॥ ईदृशोऽपीह सद्धर्मों, यद्ययं वो न रोचते । ततोऽलं युष्मदीयेन, धर्मेण पुरुषाधमाः! ॥ ४१४ ॥ निवेदयत सद्धर्म, निजेभ्यः श्रमणाधमाः । आत्मीयजनकेभ्यो भो, न त्वस्माकं प्रयोजनम् ॥ ४१५ ॥ तदिदं मूढजन्तूनां, वाक्यमाकर्ण्य साधवः । ब्रूयुः करुणया याव-| यो धर्मस्य लक्षणम् ॥ ४१६ ।। तावत्ते नितरां क्रुद्धा, दष्टौष्ठा रक्तलोचनाः । गाढप्रहारदानादौ, प्रवर्तन्ते न संशयः ॥ ४१७ ।। तत-16 ॥६४३॥ स्तत्तादृशं वीक्ष्य, मुनयो मूढचेष्टितम् । निश्चिन्वन्ति निजे चित्ते, नैते साध्याः कथंचन ॥ ४१८ ॥ ततस्ते साधवस्तेषामुपेक्षां कुर्वते Jan Education in For Private Personel Use Only X w.jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy