SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ उपमितौ स. प्र. चारुयोग्यहितज्ञमूढकथा ॥६४२॥ सुरत्नानि तेषां चेदं लक्षणं, ततः प्रद्विष्टो मूढः प्राह च-नाहं यास्यामि गच्छ त्वं यत्र प्रवृत्तोऽसि, मित्रमेव न भवसि त्वं मे यस्त्वं मामकीनानि भास्वररत्नानि दूषयसि अलं मे तावकरत्नैः पुनः कृपयोपदेशदानोद्यतो निराकृतश्चारुः, अनेन संजातश्चारोरप्रज्ञापनीयो-| ऽयमिति निश्चयः, तथा भद्र! धनवाहन चारुकल्पा भगवन्तो मुनयो मूढस्थानीयेभ्यो दूरभव्येभ्योऽभव्येभ्यो वा यदा धर्मोपदेशार्थमभिमुखीभवन्ति तदा तेषां तत्तत्समीपगमनमभिधीयते, ततः कुर्वन्ति ते सद्धर्मदेशनया मोक्षगमनं प्रति तदामन्त्रणं, ततस्ते मूढकल्पा | जन्तवः खल्वेवमाचक्षीरन्-यदुत भो भोः श्रमणकाः! किं तेन यौष्माकीणेन मोक्षेण नः प्रयोजनं?, भवतामप्यलमेव तत्र गमनेन, तथाहि-न तत्र खाद्यं नो पेयं, न विलासा न भूतयः । न दिव्यः प्रियसंयोगो, न कान्ताः कमलेक्षणाः ।। ३८९ ॥ न भाषणं सवि| श्रम्भ, न गीतं नापि नर्तनम् । न हास्यं हन्त यौष्माकः, स मोक्षो ननु बन्धनम् ॥ ३९० ॥ अत्यन्तरमणीयोऽयमस्माकं प्रतिभासते। सदा संसारविस्तारश्चित्ताहादविधायकः ॥ ३९१॥ यतोऽत्र सन्ति संसारे, खाद्यं पेयं विभूतयः । विलासा भूषणं नार्यः, कामदाः पद्मलोचनाः ॥ ३९२ ॥ यथेष्टचेष्टाचारित्वं, गीतं नृत्यं विलेपनम् । विद्यते सर्वमेवात्र, संपूर्ण सुखसाधनम् ॥ ३९३ ॥ अतो विमुच्य |संसार, सुखसम्भारपूरितम् । भो भोः श्रमणका! यूयं, न मोक्षं गन्तुमर्हथ ॥ ३९४ ॥ तदलं मोक्षवादेन, संसारे सुन्दरा स्थितिः । मानयित्वा सुखं दिव्यं, पश्चान्मोक्षे गमिष्यथ ॥ ३९५ ॥ यश्च सद्धर्मवादोऽयं, भवतां मनसि स्थितः । अस्माकमपि सोऽस्त्येव, किं यूयं धर्मगर्विताः ॥ ३९६ ।। तथाहि-भूरिभिर्महिषैश्छागैः, शूकरैश्च निपातितैः । कुर्महे चण्डिकादीनां, वयं रुधिरतपेणम् ॥३९७॥ गोमेधमश्वमेधं च, नरमेधं तथाऽऽजकैः । कुर्मों यागं चतुर्भेदं, भूतसबातमर्दनम् ।। ३९८ ॥ कुयोनिवर्तिनः सत्त्वान् , निःशेषान् दुःख|पीडितान् । हत्वा हत्वा वयं दुःखान्मोचयामः कृपापराः ॥ ३९९ ॥ पापा जीवसङ्कातं, मारयित्वा दिने दिने । मांसावारितसत्रं च, ॥६४२॥ Jain Education Intern For Private & Personal Use Only Diainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy