________________
उपमिती स. ७-प्र.
चारुयोग्यहितज्ञमढकथा.
॥६४०॥
स्मर्तव्यमणीयोऽपि सुकृतं यतितव्यं परार्थे संभाषणीयः प्रथमं विशिष्टलोकः अनुमोदनीयो धार्मिकजनः न विधेयं परमर्मोद्घट्टनं भवि- "तव्यं सुवेषाचारैः", ततो भविष्यति भवतां सर्वज्ञोपज्ञसद्धर्मानुष्ठानयोग्यता, तत्र च "गृहस्थैः सद्भिः परिहर्तव्योऽकल्याणमित्रयोगः "सेवितव्यानि कल्याणमित्राणि न लङ्घनीयोचितस्थितिः अपेक्षितव्यो लोकमार्गः माननीया गुरुसंहतिः भवितव्यमेतत्तत्रैः प्रवर्तितव्यं "दानादौ कर्तव्योदारपूजा भगवतां निरूपणीयः साधुविशेषः श्रोतव्यं विधिना धर्मशास्त्रं भावनीयं महायत्नेन अनुष्ठेयस्तदर्थो विधानेन "अवलम्बनीयं धैर्य पर्यालोचनीयाऽऽयतिः अवलोकनीयो मृत्युः भवितव्यं परलोकप्रधानैः सेवितव्यो गुरुजनः कर्तव्यं योगपट्टदर्शनं "स्थापनीयं तद्रूपादि मानसे निरूपयितव्या धारणा परिहर्तव्यो विक्षेपमार्गः प्रयतितव्यं योगशुद्धौ कारयितव्यं भगवद्भुवनबिम्बादिकं "लेखनीयं भुवनेशवचनं कर्तव्यो मङ्गलजपः प्रतिपत्तव्यं चतुःशरणं गर्हितव्यानि दुष्कृतानि अनुमोदयितव्यं कुशलं पूजनीया मत्रदेवताः "श्रोतव्यानि सच्चेष्टितानि भावनीयमौदार्य वर्तितव्यमुत्तमज्ञातेन” ततो भविष्यति भवतां साधुधर्मानुष्ठानभाजनता । ततः "कृतबहिरन्तरङ्गसङ्गत्यागैः परदत्तभोजिभिर्भावमुनिभिः सद्भिर्भवद्भिरासेवनीया ग्रहणशिक्षा विधेया वस्तुतत्त्वजिज्ञासा मृगणीयः स्वपरतत्रवे"दिना परहितनिरतेन पराशयवेदिना यथार्थाभिमानेन गुरुणा सम्यक् सम्बन्धः प्रयोक्तव्यो गुरुविनयः अनुष्ठेया विधिपरता कर्तव्यो "मण्डलीनिषद्याक्षादौ यत्नः अनुपालनीयो ज्येष्ठक्रमो भजनीयोचिताशनक्रिया हेयो विकथादिविक्षेपः शीलनीया भावसारमुपयोगप्रधा"नता शिक्षणीयोऽयं श्रवणविधिः आचरणीया बोधपरिणतिः यतितव्यं सम्यग्ज्ञानस्थिरतायां कार्य मनःस्थैर्य न विधेयो ज्ञानव॒त्सेकः "नोपहसनीयास्तदज्ञाः परित्याज्यो विवादः परिहार्यमबुद्धबुद्धिभेदकरणं न विधेयः कुपात्रे शास्त्रनियोगः” ततो भविष्यति भवतां पात्रता बहुमता गुणज्ञानां विप्रवती शमश्रीः स्वाश्रयो भावसम्पदां, ततः संजनिष्यन्ते भवतामुपरि सप्रसादा गुरवः संप्रदापयिष्यन्ति सिद्धा
॥६४०
Jain Education in
For Private Personal Use Only
Kinaw.jainelibrary.org