SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ उपमिती स. प्र. ॥ ६३९॥ ऊस -सुखेन वयं तिष्ठामो यतो भक्षयामो मांसमित्यादि, तदपि मुग्धताविजृम्भितमेव भवतां हास्यप्रायं विवेकिनां, यतः “सन्निहिताशेषापाये चारुयोग्य"काये वलात्सु विविधरोगेषु त्वरागामिन्यां जरायां मनःशरीरसन्तापकारिषु राजाद्युपद्रवेषु यायावरे यौवने सर्वव्यसनकारिणीषु स-8 हितज्ञमू| "म्पत्सु मनोदाहिनीष्टवियोगे चित्तवैधुर्यकारिणि विप्रियसम्प्रयोगे सततमागामुके मरणे सर्वथाऽशुचिनिधाने शरीरे पुद्गलपरिणाममात्र- ढकथा "निःसारेषु विषयेषु असंख्यदुःखलक्षपरिपूरिते जगति वर्तमानानामसुमतां कीदृशं नाम सुखं ?, परमार्थतो दुःखेऽपि सुखविपर्यास एष | "भवता, कर्मजनितः खल्वेष विभ्रमः कारणमनन्तभवभ्रमणस्य, ततो भो भद्राः! कृच्छ्रेण प्राप्ते मनुष्यभवे सन्निहितायां धर्मसामग्र्यां| "सत्यस्मदुपदेशे स्वाधीने गुणाधाने प्रकटे ज्ञानादिमोक्षमार्गे अनन्तानन्दरूपे जीवे तस्य स्वरूपलाभलक्षणे मोक्षे ज्ञानश्रद्धानुष्ठानमात्रायत्ते | | "तल्लाभे न युक्तं भवतामीदृशमात्मवञ्चनं कर्तु" तदिदं सन्मुनिवचनमाकर्ण्य ते हितज्ञतुल्या भद्रकभव्यमिथ्यादृष्टयो जीवा निश्चिन्वन्ति तेषां भगवतां सन्मुनीनां वत्सलतां लक्षयन्ति परिज्ञानातिरेक, ततो निवर्तयन्ति तदुपदेशेनावाप्तशुभवासनाविशेषाः सन्तो धनविषय-14 गृद्धिप्रतिबन्धं पृच्छन्ति च विशेषतो मुनिजनं ते धर्ममार्ग दर्शयन्ति शिष्यभावं रजयति गुरूनपि विनयादिगुणैः, ततः प्रसन्नहृदया गुरवस्तेभ्यो गृहस्थावस्थोचितं साधुदशायोग्यं च प्रतिपादयन्ति धर्ममार्ग प्रायन्ति तदुपार्जनोपायं महायत्नेन यदुत-भो भद्राः! सद्धर्मसाधनयोग्यत्वमात्मनोऽभिलषद्भिर्भवद्भिस्तावदिदमादौ कर्तव्यं भवति यदुत “सेवनीया दयालुता न विधेयः परपरिभवः मोक्तव्या को"पनता वर्जनीयो दुर्जनसंसर्गः विरहितव्याऽलीकवादिता अभ्यसनीयो गुणानुरागः न कार्या चौर्यबुद्धिः त्यजनीयो मिथ्याभिमानः "वारणीयः परदाराभिलाषः परिहर्तव्यो धनादिगर्वः निधेया दुःखितदुःखत्राणेच्छा पूजनीया गुरवः वन्दनीया देवसङ्काः सन्माननीयः | ॥६३९॥ "परिजनः पूरणीयः प्रणयिलोकः अनुवर्तनीयो मित्रवर्गः न भाषणीयः परावर्णवादो ग्रहीतव्याः परगुणाः लज्जनीयं निजगुणविकत्थनेन RE Jain Education Intemente For Private & Personel Use Only www.jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy