SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ उपमितौ स. ७- प्र. ॥ ६३८ ॥ Jain Education Inter ★ थनायाभिमुखीभवन्ति तच्चारुणा हितज्ञसमीपगमनमभिधीयते, ततः कुर्वन्ति ते साधवस्तेषां भद्रकभव्यमिध्यादृष्टीनां धर्मदेशनया मोक्षगमनं प्रत्यामन्त्रणं, तेऽपि च तेभ्यो दर्शयन्ति यथा वयमपि कुर्म एव धर्म यतोऽनुतिष्ठामो नित्यस्नानं जुहुमोऽग्निहोत्रं दहामस्तिलसमिधः प्रयच्छामो गोभूमिहिरण्यादीनि कारयामो वापीकूपतडागप्रभृतीनि परिणयामः कन्यका इत्यादिकं काचशकलादिदर्शनं अन्यच्च ते सुसाधुभ्यो निवेदयन्ति यथा - भो भट्टारकाः ! सुखेन वयमास्महे यतो भक्षयामो मांसं पिबामो मद्यं आस्वादयामो विचित्रं सुरसं भोजनं रमयामो वरस्त्रियः परिदध्मः सुकुमारोज्वलवसनानि मानयामः पञ्चसुगन्धिकोन्मिश्रं ताम्बूलं विलसामो विविधमाल्यविलेपनैः मील| यामो धननिचयं विचरामो यथेष्टचेष्टया न सहामो रिपुगन्धं उल्लासयामो निजकीर्ति दर्शयामः स्वस्य देवरूपतां अनुभवामो मनुष्यभवसारमित्यादि, तदिदं काननादिकौतुकसारमात्मचेष्टितकथनं, ततो यथा तेन चारुणा कृपापरिगतहृदयेन हितज्ञं प्रत्यभिहितं यदुत — वयस्य ! वञ्चितोऽसि त्वं पापिना धूर्तलोकेन मुग्धतया न जानीषे विधातुं रत्नगुणदोषपरीक्षां, अन्यच्च न युक्तं तव कर्तु रत्नद्वीपमागतस्य काननादिकुतूहलं विप्रलम्भस्तवैष परमार्थेन, ततो हितज्ञेन निश्चित्य तदीयवत्सलतां लक्षितः परिज्ञानातिरेकः, ततो निवर्तितं काननादिकौतुकं, पृष्टश्च स चारू रत्नलक्षणं दर्शितः शिष्यभावः, चारुरपि रञ्जितस्तद्गुणैः निवेदितं रत्नलक्षणं प्राहितस्तदुपाजनोपायं हि - तज्ञश्चारुणा संजातो विचक्षणः परीक्षको रत्नानां, ततः परिहृत्य कृत्रिमरत्नानि संपन्नः सत्यरत्नग्रहणोद्यत इति, तथा भद्र! घनवाहन | सन्मुनयोऽपि करुणापरिगतमानसास्तानेवं वदतो भद्रकभव्यमिध्यादृष्टीनित्थमाचक्षते, यदुत — भो भद्राः सत्यं धर्मशीला यूयं कुरुथ धर्ममात्मबुद्ध्या केवलं मुग्धतया न जानीथ तद्विशेषं वश्चिता यूयं कुधर्मशास्त्रकारैः, न खलु हिंस्रकर्माणि धर्मसाधनानि भवन्ति, सर्व - भूतदयाप्रधानो हि भगवान् विशुद्धधर्मः, तद्विरोधीनि च यागहोमादीनि, तन्न युक्तं धर्मबुद्ध्या भवतामधर्मासेवनं, यत्पुनर्ब्रथ यूयं यथा For Private & Personal Use Only चारुयोग्य हितंज्ञमू ढकथा ॥ ६३८ ॥ ainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy