SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ उपमितौ स. ७-प्र. ॥ ६३६ ॥ Jain Education Int णोक्तं किं पुनरत्र कारणं ?, ततो योग्येन कथितं तदुपार्जनविघ्नभूतमात्मनः काननादिकुतूहलं, तथा भद्र! घनवाहन चारुतुल्या भगवन्तो मुनयो भृत्वाऽऽत्मानं तपः संयमप्रशमसन्तोषज्ञानदर्शनादीनां भावरत्नानां निष्ठितार्थाः स्वयं जिगमिषवो मोक्षलक्षणे स्वस्थाने योग्यरूपाणां देशविरतानां मोक्षगमनार्थमामन्त्रणमिव कुर्वाणाः कुर्वन्ति धर्मदेशनां, ते तु निवेदयन्त्यात्मनः स्तोकगुणत्वं, ततः साधवो जुवते भो भद्रा ! मनुष्यभावे स्वाधीनं सर्वेषां सद्गुणार्जनं तत्किं न संपूर्णगुणा जाता यूयं यथा वयं ?, ततः कथयन्ति ते देशविरताः संपूर्णगुणोपार्जनविघ्नभूतमात्मनो धनविषयादिषु ममत्वव्यसनं, ततो यथा चारुणा योग्यं प्रत्युक्तं - यथा भद्र! न युक्तं ते प्राप्तस्य रत्नद्वीपे काननादिकुतूहलं कर्तुं वञ्चनमिदमात्मनो महाविघ्नः सुरत्नग्रहणस्य जानासि च त्वं सुरत्नानां सुखहेतुतां तथाप्यनादरमेवं तेषु कुर्वाणः किमात्मनो वैरिकायसे ?, न च चिरेणापि ते कौतुकपरिपूर्तिस्तद्वरं स्वार्थे यतितमितरथा निरर्थकं रत्नद्वीपागमनं, ततो भद्र! मुश्च वनादिकौतुकं कुरु मयि सन्निहिते सुरत्नोपार्जनमन्यथा स्वार्थभ्रष्टो भविष्यसि ततोऽत्यन्तलजितो योग्यः प्रतिपन्नं चारुवचनमनुष्ठितं विधानेन संजातः सुरत्नानां बोहित्थभरणेन स्वार्थसाधक इति, तथा भद्र! घनवाहन मुनयोऽपि देशविरतानेवमाचश्चते, यथा “भो भद्रा ! न “युक्तं युष्मादृशामवाप्ते मनुष्यभावे जानतां जिनवचनामृतरसं लक्षयतां भवनैर्गुण्यमाकलयतां कायकलिलमलाविलतां वेदयतां यौवनस्य " सन्ध्याभ्ररागभङ्गुरतां पश्यतां जीवितस्य धर्मोपतप्तशकुनिगलचञ्चलतां भावयतां स्वजनवर्गस्नेहादेरचिरद्युतिविलसितदृष्टनष्टतां कर्तुमी"दृशं धनविषयादिममत्वव्यसनं वचनमिदमात्मनो महान्तरायो ज्ञानादिसाधनस्य जानन्ति च भद्राः यथा परिणामदारुणा विषयाः "कारणं चित्तविप्लवानां तरलहृदया योषितोऽभूमिः सद्भावसुखानां हेतुभूतमार्तरौद्रध्यानानां सुगतिमार्गप्रदीपो ज्ञानं जनकं मानसाहा"दानां कुयोनिगर्तातिपातहस्तावलम्बो दर्शनं सम्पादनमनन्तमनः प्रमोदानां सुक्षेमाक्षेपमोक्षनिक्षेपणं चारित्रं समर्पकं निरन्तरचित्तोत्स For Private & Personal Use Only चारुयोग्यहितज्ञम् ढकथा ॥ ६३६ ॥ w.jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy