________________
त ते भूयसा कानापि रत्नद्वीपे विशालका: गृहीता
उपमितौ स. प्र.
॥६३५॥
निरर्थकं भयांसं कालं तथापि मीलयन्ति ते भूयसा कालेन श्रावकधर्मोचितानि कियन्त्यपि गुणरत्नकानि न विदधति साधुधर्मसाध्यं चारुयोग्यविशिष्टगुणरत्नसञ्चयमिति २ । यथा च तेन हितज्ञेन प्राप्तेनापि रत्नद्वीपे विज्ञाय स्वयं रत्नपरीक्षणं धारिता परोपदेशयोग्यता कृतं विहा
हितज्ञमूरारामादिषु महत्तरं कौतुकं न विहितं सुरत्नग्रहणं न लक्षितास्ते वञ्चका धूर्तलोकाः गृहीतानि चिकिचिकायमानानि काचशकलादीनि
कलादाना ढकथा जनिता तेषु सुन्दराणीति बुद्धिः वञ्चितश्चारूपदेशात्पूर्वमात्मेति, तथा भद्र धनवाहन! भव्यतया सुन्दरा जीवाः समासाद्य मनुष्यभावं मनाग्गुरुकर्मतया न विजानन्ति स्वयं कर्तुं धर्मगुणदोषपरीक्षणं धारयन्ति परोपदेशयोग्यतां कुर्वन्ति विषयधनादिषु महत्तरं प्रतिबन्धं न विधति सर्वज्ञप्रणीतसद्धर्मोपार्जनं न लक्षयन्ति कुतीर्थिकवञ्चकतां गृह्णन्ति प्रशमदयादमादिसाररहितानि दम्भप्रधानतया बहिश्चिकिचिकायमानकृत्रिमरत्नतुल्यानि कुधर्मानुष्ठानानि जनयन्ति तेषु सुन्दराणीति बुद्धिं वञ्चयन्ति च सद्गुरूपदेशात्पूर्वमात्मानमिति ३ । यथा च तेन मूढेन रत्नद्वीपगतेनापि न विहितं स्वयं रत्नगुणदोषपरीक्षणं नापि प्रतिपन्नं परोपदेशेन अनुशीलितं वनदेवकुलादिगोचरमत्यन्तकौतुकं विद्विष्टानि सत्यरत्नानि गृहीतानि काचशकलादीनि कृतस्तेषु सद्रनाभिनिवेशः मोषितो धूर्तलोकेन वञ्चितो नितान्तमात्मेति, तथा भद्र! घनवाहन लब्ध्वापि मनुष्यभवमभव्यतया दूरभव्यतया वाऽतिक्लिष्टतमा जीवाः गुरुतरकर्मभराक्रान्ततया न विदन्त्येव स्वयं कर्तुं धर्मगुणदोषपरीक्षणं नापि प्रतिपद्यन्ते परोपदेशेन अनुशीलयन्ति विषयधनादिषु गाढलौल्यं विद्विषन्ति प्रशमदयादीनि सद्भूतानुष्ठानानि गृहन्ति धर्मबुद्ध्या स्नानहोमयागादीनि जीवघातोपमर्दकारीणि कदनुष्ठानानि कुर्वन्ति तेषु तत्त्वाभिनिवेशं मोषयन्ति कुतीर्थिकैः तदेवं वञ्चयन्ति ते नितान्तमात्मानमिति ४ । यथा च स चारुः पूरयित्वा बोहित्थं कृतकृत्यः स्वयं गन्तुकामः स्वस्थाने योग्यं प्रत्याह ॥६३५॥ -यथाऽहं गमिष्यामि मित्र! किं वर्तते तवेति, योग्येनोक्तंन पूर्यते ममाद्यापि बोहित्थं स्तोकान्येव मयोपार्जितानि रत्नानि, चारु-8
N
w
For Private & Personal Use Only
Jain Education
.jainelibrary.org
a
l