SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ उपमितौ स. ७-प्र. ॥ ६३४ ॥ Jain Education Int त्वात्तस्याः, यस्तु मूढस्योपरि क्रुद्धो नरेन्द्रः स स्वकर्मपरिणामो विज्ञेयः, समुद्रमध्यप्रक्षेपस्तु मूढस्यानन्तभवभ्रमणं द्रष्टव्यमिति । एवं च स्थिते भो भो घनवाहन ! — सर्वः कथानकस्यास्य, भावार्थ: सुपरिस्फुट: । तथापि ते प्रबोधाय विशेषेणाभिधीयते ॥ ३८५ ॥ तत्र यथा तेन चारुणा निर्गत्य वसन्तपुरावयित्वा समुद्रं समासाद्य रत्नद्वीपं विज्ञातः कृत्रिमाकृत्रिमरत्नविशेषः न कृतं काननादिषु कौतुकं लक्षिता धूर्तलोकाः न गृहीतानि कृत्रिमरत्नानि कृतं विशिष्टरत्नग्रहणवाणिज्यं उपात्त: सुन्दररत्ननिचयः आवर्जिता विशिष्टलोकाः पूरितं बोहित्थं संजातः स्वार्थसाधक इति, तथा भद्र! भव्यतया सुन्दरतमा जीवा निष्क्रम्यासांव्यवहारिकजीवराशेरतीत्यानन्तं संसारविस्तारं संप्राप्य मनुष्यभावं लघुकर्मतया विजानन्ति हेयोपादेयविभागं चिन्तयन्ति च ते — “यथाऽतिदुर्लभमिदं मानुष्यमाकरो भावरत्नानां का“रणं निर्वाणसुखस्य संप्राप्तमिदमधुनाऽस्माभिः समारूढा वयं महत्तरां कोटिं तन्न युक्तोऽस्माकमधुना विषादपि विषमतरो विपाकेषु विष"यधनादिषु प्रतिबन्धः समासादयन्ति च ते सर्वज्ञोपज्ञं धर्ममार्ग, ततो न विप्रलभ्यन्ते कुतीर्थिकैः न प्रवर्तन्ते कुधर्मग्रहणे कुर्वन्ति "साधुधर्माङ्गीकरणलक्षणं वाणिज्यं गृह्णन्ति क्षान्तिमार्दवार्जवमुक्तितपः संयमसत्यशौचाकिञ्चनत्वब्रह्मचर्य सन्तोषप्रशमादिकं प्रतिक्षणं गुण“रत्ननिचयं आवर्जयन्ति सद्गुरुसाधुसाधर्मिकजनं पूरयन्ति सद्गुणानामात्मानं संजायन्ते स्वकार्यनिष्पादका” इति १ । यथा च योग्येन तत्र रत्नद्वीपे विज्ञातं गुणदोषविचारणं कृतं किंचित्तग्रहणार्थं वाणिज्यं केवलं संजातमस्य काननादिदर्शनव्यसनं तत्परायत्तेन गमितोऽनर्थको बहुः कालो मीलितानि कालेन भूयसा कियन्त्यपि रत्नकानि न विहितो विशिष्टरत्नसंचय इति, तथा भद्र ! घनवाहन भव्यतया सुन्दरतरा जीवाः संप्राप्य मनुष्यजन्म लघुकर्मतया जानन्ति गुणागुणपरीक्षणं कुर्वन्ति सर्वज्ञदर्शनमवाप्य श्रावकोचितं कियदपि सद्गुणग्रहणवाणिज्यं केवलं दुर्जयत्वेन लोभस्य चटुलतयेन्द्रियग्रामस्य संजायते तेषां धनविषयादिषु ममत्वव्यसनं तत्परायत्ताश्च ते गमयन्ति For Private & Personal Use Only चारुयोग्यहितज्ञमूढकथा ॥ ६३४ ॥ w.jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy