________________
294
उपमितौ स. ७-प्र.
चारुयोग्यहितज्ञमूढकथा
॥६३२॥
न्तितं योग्यो, यथा जातो यथाऽर्थकः । हितज्ञोऽपि तथा नूनं, गुणनिष्पन्ननामकः ॥ ३५५ ॥ ततो निवेदितास्तेन, सर्वे रत्नगुणागुणाः।। माहितश्च प्रयत्नेन, हितज्ञस्तदुपार्जनम् ॥ ३५६ ॥ ततश्चारूपदेशेन, हित्वा सर्व कुतूहलम् । काचादिपरिहारेण, कुर्वन् सद्रत्नसङ्ग्रहम् । ॥ ३५७ ॥ ततः प्रभृति संजातो, हितज्ञोऽपि विचक्षणः । स्वयं परीक्षकस्तेषां, रत्नानामर्जने रतः ॥ ३५८ ॥ अथ चारुर्गतः पार्श्वे, तस्य मूढस्य सादरम् । सोऽप्युक्तोऽहं ब्रजिष्यामि, मित्र! किं वर्तते तव? ॥ ३५९ ॥ मूढः प्राह वयस्य ! त्वं, किं गतेन करिष्यसि ? । रमणीयमिदं द्वीपं, किं न पश्यसि सर्वतः? ॥ ३६० ॥ पद्मखण्डगृहोद्यानसरोवरविभूषितम् । विहारारामपुष्पाढ्यं, वनराजिविराजितम् ।। ३६१ ।। तदत्र सुचिरं तावन्मानयित्वा परं सुखम् । पश्चात्स्वस्थानगमनं, करिष्यामो यथेच्छया ॥ ३६२ ।। भृतं मयाऽपि बो|हित्थं, रत्नानां मित्र! वर्तते । ततस्तद्दर्शितं तेन, चारोबोहित्थमजसा ॥ ३६३ ।। अथाक्षशङ्खकोन्मिश्रकाचखण्डादिपूरितम् । तदृष्ट्वा चिन्तयत्येवं, स चारुश्चारुचेतनः ।। ३६४ ॥ अहो वराको मूढोऽयं, मूढ एव न संशयः । प्रस्तः कुतूहलेनोच्चैधूर्तलोकेन वञ्चितः ॥३६५॥ तथापि शिक्षयामीम, यद्येष विनिवर्तते । एवं विचिन्त्य तेनोक्तं, चारुणा बुद्धिचारुणा ॥ ३६६ ॥ न युक्तं कौतुकं कर्तुमत्र मित्र! वना| दिषु । आत्मवञ्चनमेतद्धि, रत्नवाणिज्यबाधकम् ॥ ३६७ ॥ वञ्चितश्च दृढं मित्र!, धूर्तलोकेन पापिना । अरत्नानि गृहीतानि, रत्नबुद्ध्या | यतस्त्वया ॥ ३६८ ॥ इदं कचवरं सर्व, तच्छीघ्रं संपरित्यज । सुरत्नानि गृहाण त्वं, तेषामेतच्च लक्षणम् ॥ ३६९ ॥ ततो यावकिला
चष्टे, स चारू रत्नलक्षणम् । तावदुत्तेजितो मूढस्तं प्रतीदमभाषत ॥ ३७० ॥ नाहं यास्यामि गच्छ त्वं, प्रवृत्तो यत्र कुत्रचित् । वयस्य ! | एवमेव त्वं, यस्त्वमेवं प्रभाषसे ।। ३७१ ।। निराकरोषि त्वं तावदेकं मुत्कलचारिताम् । द्वितीयं मामक रत्नसञ्चयं दूषयस्यलम् ।।३७२।। प्रभास्वराणि यद्येवं, रत्नानि न भवन्ति ते । पर्याप्तमपरैस्तात!, तावकैर्मम रत्नकैः ॥ ३७३ ॥ ततश्चारुः पुनर्यावद्भाषणे स्फुरिताधरः ।
॥६३२॥
Jain Education in
For Private & Personel Use Only
Y
w
.jainelibrary.org