________________
उपमितौ
स. ७-प्र. ॥ ६३१ ॥
नादानेन रत्नानामात्मवश्वनमीदृशम् ॥ ३३६ ॥ जानीषे तात! रत्नानां त्वमेषां सुखहेतुताम् । तथाप्यनादरं कुर्वन्नात्मनो वैरिकायसे ॥ ३३७ ॥ चिरादपि न सन्तोषो, भद्र! ते काननादिषु । तद्वरं विहितः स्वार्थः, स्वार्थभ्रंशो हि मूर्खता ॥ ३३८ ॥ प्राप्तोऽपि रत्नद्वीपे त्वं, रत्नोपार्जनकाम्यया । अकुर्वन्नर्जनं तेषामात्मनः किं न लज्जसे ? ॥ ३३९ ॥ अतो मद्वचनान्मुथ्व, काननादिकुतूहलम् । कुरु भद्र! सुरत्नानां सततं समुपार्जनम् ॥ ३४० ॥ अन्यथाऽहं गमिष्यामि, संपन्नं मे प्रयोजनम् । एवं विचेष्टमानस्त्वं, स्वार्थभ्रष्टो भवि - ध्यसि ॥ ३४९ ॥ ततश्चेदं वचचारोः, श्रुत्वा योग्यः स्वमानसे । अत्यन्तलज्जितः स्वेन, चेष्टितेन प्रभावितः ॥ ३४२ ॥ न गन्तव्यं त्वया तावन्महाभाग ! करोम्यहम् । यदादिशसि तत्सर्वं किं कर्तव्यं ममापरम् ? ॥ ३४३ ॥ ततो विमुच्य तत्सर्वं काननादिकुतूहलम् । स रत्नोपार्जने लग्नो, योग्यो वाक्येन धीमतः ॥ ३४४ ॥ अथ चारुर्गतो मूलं, हितज्ञस्य ततः परम् । सोऽप्युक्तोऽहं गमिष्यामि, मित्र ! किं वर्तते तव ? ॥ ३४५ ॥ ततश्वारोतिज्ञेन दर्शितं यदुपार्जितम् । ससंभ्रमेण सहसा, तत्काचशकलादिकम् ॥ ३४६ ॥ अत्यन्तनेहसारेण कथितं चात्मचेष्टितम् । ततश्चारुः कृपोपेतो, हितज्ञं प्रत्यभाषत ॥ ३४७ ॥ वयस्य ! वञ्चितोऽसि त्वं, धूर्तलोकेन पापिना । मुग्धस्त्वं हि न जानीषे, कर्तुं रत्नपरीक्षणम् ॥ ३४८ ॥ अन्यश्च – रत्नोपार्जनवेषेण, रत्नद्वीपमुपेयुषः । न युज्यते च ते कर्तु, काननादिकुतूहलम् ॥ ३४९ तदाकर्ण्य वचश्वारोतिज्ञेन विचिन्तितम् । अहो वत्सलता चारोरहो वचनकौशलम् ॥ ३५० ॥ जानात्ययं महाभागः, सर्व यन्मे हिताहितम् । तदेनमेव पृच्छामि, यत्कर्तव्यं मयाऽधुना ॥ ३५१ ॥ ततः प्रोक्तो हितज्ञेन, स चारुर्मित्रवत्सलः । नाधुनाऽहं करिष्यामि, काननादिकुतूहलम् ॥ ३५२ ॥ रत्नानां गुणदोषाश्च, निवेद्यन्तां त्वयाऽधुना । काचादिपरिहारेण येन तान्यहमाददे || ३५३ ।। ततस्त्वदुपदेशेन भृत्वा बोहित्थमञ्जसा । त्वया सार्धं गमिष्यामि, प्रतीक्षस्व नरोत्तम ! ॥ ३५४ ॥ चारुणा चि
Jain Education International
For Private & Personal Use Only
चारुयोग्यहितज्ञमू
ढकथा
॥ ६३१ ॥
www.jainelibrary.org