SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ उपमितौ स. ७प्र. ॥ ६३० ॥ Jain Education Inte ॥ ३१७ ॥ योग्योऽपि कुरुते किंचिद्वाणिज्यं रत्नकाम्यया । केवलं विद्यते तस्य, कौतुकं काननादिषु ॥ ३१८ ॥ जानीते सोऽपि रत्नानां, गुणदोषविचारणम् । कर्तुं कुतूहलेनोच्चैः केवलं हियते बलात् ।। ३१९ ।। ततश्च - आरामकाननोद्यानसरोवरदिदृक्षया । भ्रमतोऽहर्निशं तस्य, वृथा गच्छन्ति वासराः ॥ ३२० ॥ कचिदेव भयाच्चारो, राजवेष्टिसमानकम् । अनादरेण कुरुते स रत्नानामुपार्जनम् ॥ ३२१ ॥ तथापि मिलितान्यस्य, भद्र! कालेन भूयसा । तथाविधानि योग्यस्य, माणिक्यानि कियन्त्यपि ॥ ३२२ ॥ केवलं – विशिष्टरत्नसम्भारं नादत्तेऽसौ कुतूहली । रत्नद्वीपेऽपि संप्राप्तः, स्तोकेन बहु हारयेत् ॥ ३२३ ॥ हितज्ञस्तु न जानीते, स्वयं रत्नपरीक्षणम् । कर्तुं परोपदेशात्तु, केवलं लक्षयत्यसौ ॥ ३२४ ॥ विहारारामचित्रादिदर्शने च महत्तमम् । कुतूहलं हितज्ञस्य, रत्नवाणिज्यबाधकम् ॥ ३२५ ॥ ततोऽसौ रत्नवाणिज्यं, न करोति प्रमादतः । कुर्वन्नपि च मूर्खत्वाद्धूर्तलोकेन वच्यते ॥ ३२६ ॥ यतश्चिकिचिकायन्ते, शङ्खकाचकपर्दकाः । ततस्तग्रहणोद्युक्तो, धूर्तलोकेन वञ्चितः ॥ ३२७॥ ( कथं कुतूहलाक्रान्ते, सद्रत्नानां हि पात्रता) । (रत्नद्वीपेऽपि संप्राप्तः, प्रमादस्य वशंवदः) । असारवस्तुसंग्राही संजायताकृतार्थकः || ३२८ ।। मूढस्तु न विजानीते, स्वयं रत्नपरीक्षणम् । कर्तुं नापि परेणोक्तं, मोहादेष प्रपद्यते ॥ ३२९ ॥ पद्मखण्डवनोद्यानचित्रदेवकुलादिषु । तथाऽस्य भद्र! मूढस्य, विद्यतेऽत्यन्तकौतुकम् ॥ ३३० ॥ ततश्च – सद्वेष्टि सत्यरत्नानि, हिण्डते काननादिषु । गृह्णाति धूर्तहस्ताच्च शङ्खकाचकपर्दकान् ।। ३३१ ॥ अथ संभृतबोहित्थः, स्वस्थानगमनेच्छया । किं वर्तते मदीयानां, मित्राणामिति चिन्तया ? ॥ ३३२ ॥ स चारुस्तस्य योग्यस्य, तदा मूलमुपागतः । उक्तं चाहं गमिष्यामि, मित्र ! किं वर्तते तव ? ॥ ३३३ ॥ युग्मम् । योग्यः प्राह न मेऽद्यापि, बोहित्थं बत पूर्यते । स्तोकान्येवार्जितानीह, मया रत्नानि कानिचित् ॥ ३३४ ॥ चारुणाऽभिहितं मित्र !, किं पुनर्महदन्तरम् । ततो योग्येन कथितं सर्वमात्मीयचेष्टितम् ॥ ३३५ ॥ चारुणोक्तं न युक्तं ते, काननादिकुतूहलात् । अ For Private & Personal Use Only चारुयोग्य हितज्ञमू ढकथा ॥ ६३० ॥ ww.jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy