________________
उपमितौ
स. ७-प्र.
॥ ६२९ ॥
च प्रसेविता ॥ २९९ ॥ तत्कर्मभोजनाजीर्ण, जरयन्नेष तिष्ठति । मुनिनेदं ममाख्यातं, भद्र! वैराग्यकारणम् ॥ ३०० ॥ किं चन केवलमयं साधुरनाजीर्णेन बाधितः । वयं च बाधितास्तेन, संसारे घनवाहन ! ॥ ३०१ ॥ ततः संप्राप्य मानुष्यमावयोरपि बुध्यते । दीक्षाविधानतः कर्तु कर्मान्नाजीर्णशोधनम् ॥ ३०२ ॥ अहं तु पापभारेण, भूरिणाऽऽच्छादितस्तदा । आकलङ्कं वचो मोहादवाजीगणमीदृशम् ॥ ३०३ ॥ अथैवं भाषमाणोऽसौ, मया सार्धमुदारधीः । अकलङ्को गतः साधोः, पञ्चमस्यांहिसन्निधौ ॥ ३०४ ॥ ततः प्रणम्य तं साधुं श्रुत्वा तद्धर्मदेशनाम् । प्रस्तावे प्रनितः सोऽपि तेन वैराग्यकारणम् ॥ ३०५ ॥ मुनिराह ममाख्यातं, सूरिणैकं कथानकम् । तदेव मम संजातं, भद्र ! वैराग्यकारणम् ॥ ३०६ ॥ अकलङ्केनोक्तं यत्तत्ते नाथ ! संपन्नं, तदा वैराग्यकारणम् । तदेवानुग्रहं कृत्वा, कथ्यतां मे कथानकम् ॥ ३०७ ॥ मुनिनोक्तं, आकर्णय – वसन्तपुरवास्तव्याश्चत्वारः प्रीतिनिर्भराः । सार्थवाहसुताः केचित्प|रस्परवयस्यकाः ॥ ३०८ ॥ अनेकावर्तसत्त्वौघभयकोटिसमाकुलम् । लङ्घयित्वा समुद्रं ते, रत्नद्वीपे परागताः ।। ३०९ ॥ चारुर्योग्यो हितज्ञश्च मूढश्चेति यथाक्रमम् । तेषां नामानि जानीहि यथार्थानि नरोत्तम ! ॥ ३१० ॥ इतश्च – सर्वेषां रत्नराशीनामाकरस्तदुदाहृतम् । रत्नद्वीपं विना पुण्यैर्दुष्प्रापमतिसुन्दरम् ॥ ३११ ॥ किं तु तत्रापि न विनोपायं प्राप्यन्ते रत्नराशयः । को हि हस्तं विना भुङ्क्ते, पुरोवर्त्यपि भोजनम् ॥ ३१२ ॥ एवं च स्थिते —स चारुस्तत्र तद्वीपे शेषाकांक्षाविवर्जितः । रत्नग्रहणवाणिज्यं, कुरुते शुद्धमानसः || ३१३ ॥ आवर्जयति तल्लोकान्नानोपायैर्विचक्षणः । विधत्ते रत्नराशीनां सञ्चयं च दिने दिने || ३१४ ॥ तथा च वर्तमानस्य, तस्य निश्चितचेतसः । अकालहीनं बोहित्थं, रत्नपूगेन पूरितम् ॥ ३१५ ॥ जानाति च स रत्नानां, गुणदोषपरीक्षणम् । विधातुं २ ॥ ६२९ ॥ न च तस्यास्ति, काननादौ कुतूहलम् ।। ३१६ ।। ततः स चारुर्ज्ञानेन, सदाचारपरायणः । तत्र द्वीपे गतो भद्र !, संजातः स्वार्थसाधकः
Jain Education Internation
For Private & Personal Use Only
चारुयोग्यहितज्ञमू
ढकथा
v.jalnelibrary.org