________________
उपमितौ स. ७-प्र.
मठः
॥६२८॥
नष्टसद्धर्मचेतनाः । परायत्ताः प्रकुर्वन्ति, निन्दाक्रोशनताडनम् ॥ २८२ ॥ तेषामुपरि कः कोपं, विदधीत विचक्षणः ? । क्षते हि क्षार-11
भवचट्टनिक्षेप, कुर्वन्ति न कृपापराः ॥ २८३ ।। किं च-न केवलं कृपास्थानं, कर्मवेष्टितजन्तवः । विवेकिनां भवोद्वेगकारणं च भवन्ति ते
॥२८४ ॥ तथाहि-एतानेवंविधान् दृष्ट्वा, जीवान् संसारचारिणः । उन्मत्तमत्तसङ्काशान् , भावतः सन्निपन्नकान् ॥ २८५ ॥ लब्धे कामनुष्यभावेऽपि, जिनेन्द्रमतवेदकः । सकर्णकोऽत्र को नाम, रज्येत. भवचारके ? ।। २८६ ॥ ततोऽयं गुरुणा भद्र!, करुणाहृतचेतसा ।
स्वकर्मसन्निपाता”, बोधितो मुनिपुङ्गवः ।। २८७ ॥ स एव हि महावैद्यो, येनायं छात्रसन्निभः । साधुः स्वस्थीकृतो भद्र!, वचनामृतभेषजैः ॥ २८८ ॥ यच्चोक्तं ततो मे छात्रसंसर्गादुन्मादोऽप्यभवत्तदा । सोऽप्यनेन महायत्नादपनीतो महात्मना ॥ २८९ ॥ तदेवं बोद्धव्यं, यदुत-आभिग्रहिकमिथ्यात्वे, विधायाबुधबोधनम् । महाघस्मरकाकारे, नाशिते गुरुणाऽस्य भोः! ॥ २९० ॥ ततस्तीर्थिकसम्पर्काजातमुन्मादसन्निभम् । आभिग्रहिकमिथ्यात्वं, गुरुणा तदपि क्षतम् ।। २९१ ।। ततश्चट्टमठाकारः, सम्यग्भावस्थितस्य भोः । सर्वः संसारविस्तारो, गुरुणाऽस्य प्रकाशितः ॥ २९२ ॥ दृष्टास्ततोऽमुना जीवाश्चट्टा इव पुरोदिताः । उन्मत्ताः सन्निपातार्ताः, कर्मभोजनदोषतः ॥ २९३ ॥ गाढं दुःखभराक्रान्तान , कूजतो घूर्णमानकान् । प्रलापिनश्च तान् दृष्ट्वा, जातमस्य महाभयम् ॥ २९४ ॥ ततो|ऽभिहितो निजगुरुरनेन मुनिना, यदुत-चतुर्गतिकसंसारे, त्वयाऽमी दर्शिताः स्फुटम् । ममोद्वेगकरा नाथ!, दुःखिताः सर्वजन्तवः ॥ २९५ ॥ गुरुणोक्तं—यादृशा दुःखसन्दोहप्रस्तास्त्राणविवर्जिताः । दृश्यन्तेऽमी तथा पूर्वमभूद्भद्र! भवानपि ॥ २९६ ॥ विद्यते च तवाद्यापि, कर्माजीर्ण शरीरके । विधेहि त्वमतस्तस्य, जरणार्थ मम क्रियाम् ॥ २९७ ।। अथ त्वं मामिकामेना, सत्क्रियां न करिष्यसि ।
Ail६२८ & ततो भूयोऽपि संसारे, दुःखग्रस्तो भविष्यसि ॥ २९८ ॥ ततः श्रुत्वा गुरोर्वाक्यं, प्रव्रज्या पारमेश्वरी । गृहीताऽनेन मुनिना, सत्क्रिया
Jain Education in
For Private Personal Use Only
DMww.jainelibrary.org