________________
उपमितौ स. ७-प्र.
भवचट्ट
मठ:
॥ ६२७॥
द देवं भद्र! जीवानां, कर्मभोजननिर्मितः । मिथ्याज्ञानतमोरूपः, सन्निपातः सुदारुणः ॥ २७१ ॥ “येषां पुनर्जन्तूनां नारकतिर्यङ्नरा
"मरभवेषु विवर्तमानानामकल्याणभाजनतया संजातो मनसि सर्वज्ञशासनविपरीतोऽभिनिवेशः तद्वशेन थैर्गृहीतो रागद्वेषमोहकलुषितः | "परमात्मा प्रतिपन्न एकान्तनित्यः क्षणिको वा सर्वगतो वा पञ्चभूतात्मको वा श्यामाकतण्डुलादिरूपो वा आत्मा अङ्गीकृताः सृष्टिवा
"दादयः कृतः शेषतत्त्वानामपि विपर्यासः तेषां जन्तूनां तद्भिगृहीतमिथ्यादर्शनकर्मभोजनसामर्थ्यजनितमुन्माद इत्युच्यते” यतस्तेनो| पप्लुतचित्तास्ते प्रलपन्तीव सन्मार्गदूषणेन हसन्तीव तपोनिहवेन नृत्यन्तीव यथेष्टचेष्टाचारितोपदेशेन वलान्तीव नास्त्यात्मा नास्ति पर|लोको नास्ति पुण्यं नास्ति पापमित्यादि भाषमाणाः रुदन्तीव सर्वज्ञमत.निराक्रियमाणा गायन्तीव निजतर्कदण्डोलकान् घोषयन्तः,
एवं च स्थिते-इति नर्तनवल्गनगानपरा, हसनप्रविलापसरोदनकाः । ननु भद्र! भवन्ति जिनेन्द्रमताद्विपरीतदृशो प्रहरूपधराः ॥२७२॥ | अन्यच्च-सर्वेऽमी जन्तवः कर्मविषवेगेन धारिताः । विनष्टधर्मसंज्ञाश्च, वर्तन्ते नात्र संशयः ॥ २७३ ॥ यच्चोक्तं मुनिनाऽनेन, यथाऽयं
मुनिपुङ्गवः । मद्गुरुवैद्यके शास्त्रे, कृतगाढपरिश्रमः ॥ २७४ ।। कृपापरीतचित्तेन, सन्निपातात्सुदारुणात् । मोचितोऽहं ततोऽनेन, मुनिना | निजभेषजैः ॥ २७५ ।। घटमानमिदं भद्र!, यतोऽमी मुनिपुङ्गवाः । सिद्धान्तवैद्यकाकारे भवन्त्येव कृतश्रमाः ॥ २७६ ॥ ततः सम|स्तजन्तूनां, संसारोदरचारिणाम् । प्रत्येकं लक्षयन्त्येते, स्वरूपं मुनिसत्तमाः ॥ २७७ ॥ ततश्च-कर्मभोजनजन्येन, सन्निपातेन पीडितम् । तं जीवलोकमालोक्य, भवन्ति करुणापराः ॥ २७८ ।। चिन्तयन्ति च ते धन्याः, कथमेते वराककाः । संसारक्लेशनिर्मुक्ताः, करिष्यन्तेऽत्र देहिनः ? ॥ २७९ ॥ अत एव सुसाधूनां, निन्दाऽऽक्रोशनताडनम् । आचरन्तोऽपि न क्रोधकारणं भवजन्तवः ॥ २८० ॥ तथाहि-ये कर्मसन्निपातेन, वराका गाढपीडिताः । मिथ्यात्वोन्मादसंतप्ताः, स्वपापविषघूर्णिताः ॥ २८१ ॥ सदा दुःखभराक्रान्ता,
RRORRIGAMROSAROSAROSAROK
॥६२७॥
Jain Education
&
For Private
Personel Use Only