SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ उपमिती स. ७-प्र. MARCEL-- भवचट्ट मठः ॥६२६॥ CARRESSROOSTOCOCCCCCCC संसारो घनवाहन! । दृष्टश्चट्टमठाकारः, स चेत्थं मे निवेदितः ॥२५९ ॥ अयःशलाकासङ्काशा, नानारूपाश्च जन्तवः । परस्परमसंबद्धाश्चट्टप्रायाः प्रकीर्तिताः ॥ २६० ॥ तथाहि-नामीषां विद्यते माता, न पिता न च बान्धवाः । न धनं परमार्थेन, च्छिन्नछोरा हि जन्तवः ॥ २६१ ॥ तेषां च जीवचट्टानां, संसारमठवर्तिनाम् । आगच्छत्येव तद्भक्तं, बन्धहेतुकुटुम्बकम् ॥ २६२ ॥ विचित्रास्तत्र | विद्यन्ते, भूयांसो बन्धहेतवः । तेषां संग्रहकाः पञ्च, तत्तु मानुषपञ्चकम् ।। २६३ ।। यतः-प्रमादो योगमिथ्यात्वे, कषायाविरती तथा । एत एव हि जन्तूनां, पञ्च बन्धस्य हेतवः ॥ २६४ ॥ अनादिमोहसामर्थ्याद्भातीदं हितवत्सलम् । सदैव जीवचट्टानां, बन्धहेतुकुटुम्बकम् ॥ २६५ ॥ अरातिरूपमेतच्च, वर्तते भद्र ! देहिनाम् । तथाप्यस्य न जानन्ति, स्वरूपं मन्दबुद्धयः ।। २६६ ॥ निवर्तयति तत्कर्म, च्छात्रभोजनसन्निभम् । विचित्रं सरसं जीवचट्टलौल्यविधायकम् ॥ २६७ ॥ तन्महामोहमन्त्राढ्यं, ज्ञानावरणयौगिकम् । बन्धहेतुकुटुम्बेन, ढौकितं कर्मभोजनम् ॥ २६८ ॥ जीवच्छात्राः समासाद्य, मोहादत्यन्तलोलुपाः । आत्मानं पूरयन्त्युच्चैस्ते न जानन्ति चायतिम् ॥ २६९ ।। ततश्च तद्विपाकेन, यदज्ञानं सुदारुणम् । अनभिग्रहमिथ्यात्वसन्निपातः स कीर्तितः ॥२७० ॥ ततोऽमी जन्तवस्तेन मिथ्याज्ञानमयेन महातमोरूपेण भावसन्निपातेन सन्निपन्नाः सन्तः काष्ठवन्नष्टचेतना भवन्त्येकेन्द्रियावस्थायां अव्यक्तघोषतया घरघरायन्ते द्वीन्द्रियदशायां इतश्चेतश्च लोलन्ते त्रीन्द्रियत्वावसरे झणझणायन्ते च चतुरिन्द्रियरूपतया अर्दवितर्दकं चेष्टन्ते असंज्ञिपञ्चेन्द्रियाकारेण आलजालं झगझगायन्ते गर्भजपञ्चेन्द्रियाकारधारितया निरुद्धगलका इव वर्तन्ते अपर्याप्तकावस्थासु आविर्भूतजिह्वाकण्टका इव विसंस्थुला दृश्यन्ते विविधदुःखविधुरतया बाध्यन्ते तीव्रतापेन नरकेषु पीड्यन्ते तेष्वेव शीतातिवेदनतया न चेतयन्ति किंचिद् भूतपशुभावमापन्नाः मुहुर्मुहुर्मुह्यन्ति लब्धमनुष्यभावाः अवष्टभ्यन्ते महामोहनिद्रया देवावस्थायां नष्टधर्मसंज्ञा जायन्ते सर्वावस्थासु । त CEKACANCIENC ॥६२६॥ Jain Education Inter SC For Private & Personel Use Only Mhaw.jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy