SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ उपमिती स. ७-प्र. MARCEL-- भवचट्ट मठः ॥६२६॥ CARRESSROOSTOCOCCCCCCC संसारो घनवाहन! । दृष्टश्चट्टमठाकारः, स चेत्थं मे निवेदितः ॥२५९ ॥ अयःशलाकासङ्काशा, नानारूपाश्च जन्तवः । परस्परमसंबद्धाश्चट्टप्रायाः प्रकीर्तिताः ॥ २६० ॥ तथाहि-नामीषां विद्यते माता, न पिता न च बान्धवाः । न धनं परमार्थेन, च्छिन्नछोरा हि जन्तवः ॥ २६१ ॥ तेषां च जीवचट्टानां, संसारमठवर्तिनाम् । आगच्छत्येव तद्भक्तं, बन्धहेतुकुटुम्बकम् ॥ २६२ ॥ विचित्रास्तत्र | विद्यन्ते, भूयांसो बन्धहेतवः । तेषां संग्रहकाः पञ्च, तत्तु मानुषपञ्चकम् ।। २६३ ।। यतः-प्रमादो योगमिथ्यात्वे, कषायाविरती तथा । एत एव हि जन्तूनां, पञ्च बन्धस्य हेतवः ॥ २६४ ॥ अनादिमोहसामर्थ्याद्भातीदं हितवत्सलम् । सदैव जीवचट्टानां, बन्धहेतुकुटुम्बकम् ॥ २६५ ॥ अरातिरूपमेतच्च, वर्तते भद्र ! देहिनाम् । तथाप्यस्य न जानन्ति, स्वरूपं मन्दबुद्धयः ।। २६६ ॥ निवर्तयति तत्कर्म, च्छात्रभोजनसन्निभम् । विचित्रं सरसं जीवचट्टलौल्यविधायकम् ॥ २६७ ॥ तन्महामोहमन्त्राढ्यं, ज्ञानावरणयौगिकम् । बन्धहेतुकुटुम्बेन, ढौकितं कर्मभोजनम् ॥ २६८ ॥ जीवच्छात्राः समासाद्य, मोहादत्यन्तलोलुपाः । आत्मानं पूरयन्त्युच्चैस्ते न जानन्ति चायतिम् ॥ २६९ ।। ततश्च तद्विपाकेन, यदज्ञानं सुदारुणम् । अनभिग्रहमिथ्यात्वसन्निपातः स कीर्तितः ॥२७० ॥ ततोऽमी जन्तवस्तेन मिथ्याज्ञानमयेन महातमोरूपेण भावसन्निपातेन सन्निपन्नाः सन्तः काष्ठवन्नष्टचेतना भवन्त्येकेन्द्रियावस्थायां अव्यक्तघोषतया घरघरायन्ते द्वीन्द्रियदशायां इतश्चेतश्च लोलन्ते त्रीन्द्रियत्वावसरे झणझणायन्ते च चतुरिन्द्रियरूपतया अर्दवितर्दकं चेष्टन्ते असंज्ञिपञ्चेन्द्रियाकारेण आलजालं झगझगायन्ते गर्भजपञ्चेन्द्रियाकारधारितया निरुद्धगलका इव वर्तन्ते अपर्याप्तकावस्थासु आविर्भूतजिह्वाकण्टका इव विसंस्थुला दृश्यन्ते विविधदुःखविधुरतया बाध्यन्ते तीव्रतापेन नरकेषु पीड्यन्ते तेष्वेव शीतातिवेदनतया न चेतयन्ति किंचिद् भूतपशुभावमापन्नाः मुहुर्मुहुर्मुह्यन्ति लब्धमनुष्यभावाः अवष्टभ्यन्ते महामोहनिद्रया देवावस्थायां नष्टधर्मसंज्ञा जायन्ते सर्वावस्थासु । त CEKACANCIENC ॥६२६॥ Jain Education Inter SC For Private & Personel Use Only Mhaw.jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy