________________
७
-
उपमितौ स. ७-प्र.
॥ ६२५॥
जिह्वासंजातकण्टकाः । कण्ठे घरघरायन्तो, नष्टसंज्ञाः सुविह्वलाः ॥ २४१ ॥ कचित्तापार्तिदग्धाङ्गाः, कचिच्छीतार्तिबाधिताः । कचि- भवचट्टदुद्धान्तचित्तत्वाल्लोलमाना भुवस्तले ।। २४२ ॥ सन्निपातवशादन्ये, वृथैवार्दवितर्दकम् । कचिज्झगझगायन्ते, ते छात्राः शोच्यतां गताः मठ:॥ २४३ ॥ ये तून्मत्ताः समापन्नाश्चट्टा भोजनभक्षणात् । ते देवमुनिसङ्घानां, निन्दा कुर्वन्ति पापिनः ।। २४४ ।। लपन्ति विपरीतानि, कुर्वते दुष्टचेष्टितम् । सदोपप्लुतचित्तानां, किं स्यात्तेषां हि सुन्दरम् ? ॥ २४५ ।। अन्यत्सर्वेऽपि ते छात्राः, पशुवन्नष्टधर्मकाः । विषधारितवन्मूढा, जाता भोजनदोषतः ॥ २४६ ।। ततश्च-योऽयं स्वाध्यायपूतात्मा, दृश्यते मुनिपुङ्गवः । महावैद्यकशास्त्रस्य, विद्यतेऽतिशयो महान् ॥ २४७ ॥ ततोऽहं भद्र! चट्टानां, तेषां मध्ये कथंचन । सन्निपातातिमूढात्मा, दृष्टोऽनेन महात्मना ॥ २४८ ॥ ततः करुणयाऽनेन, सन्निपातो निजौषधैः । ममापनीतो जातोऽहं, मनाग विस्पष्टचेतनः ॥ २४९ ॥ ततो मे छात्रसंसर्गादुन्मादोऽप्यभवत्तदा । सोऽप्यनेन महायनादपनीतो महात्मना ।। २५० ॥ ततश्चायं महाभागो, दृष्ट्वा मां स्वस्थमानसम् । उन्मत्तं सन्निपातात, चट्टवृन्दमदर्शयत् ॥ २५१ ॥ दृष्टाश्च ते मया छात्राः, कूजन्तो घूर्णमानकाः । प्रलापिनः सुदुःखार्ता, गाढं जातं च मे भयम् ॥ २५२ ॥ मुनिनोक्तं
-भद्र ! भोजनदोषेण, त्वमप्येवंविधोऽभवः । विद्यते किंचिद्यापि, तवाजीर्ण शरीरके ॥ २५३ ॥ ततो मदुपदिष्टं चेत्त्वं क्रियां न | करिष्यसि । भूयोऽप्येवंविधो भद्र !, दुःखप्रस्तो भविष्यसि ॥ २५४ ।। ततः प्रत्ययसम्पत्तेर्भयाच्च मुनिनोदिता । गृहीतेयं मया दीक्षा, भोजनाजीर्णशोधनी ॥ २५५ ॥ अधुना तु–यां यामुपदिशत्येष, क्रियां मे मुनिपुङ्गवः । तां तामहं करोम्युचैरिदं वैराग्यकारणम् ॥ २५६ ॥ ततोऽकलङ्कस्तच्छृत्वा, प्रीतिविस्फारितेक्षणः । वन्दित्वा तं मुनि भूयः, प्रवृत्तोऽन्यं मुनि प्रति ।। २५७ ॥ मयोक्तं-न
४॥६२५॥ विज्ञातं मयाऽद्यापि, वयस्य! मुनिभाषितम् । सम्यगेतदतो व्यक्तं, मामाख्यातुमईसि ॥ २५८ ।। अकलङ्केनोक्तं-अनेनापि मुनीन्द्रण,
स. भ. ५३
Jan Education Intematon
For Private sPersonal use Only