SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ भवारघट्टः उपमितौर भवारघट्टे तत्राहं, प्रसुप्तः सुचिरं स्थितः ॥ २२२ ॥ इतश्च-योऽयं मुनिवरो भद्र!, दृश्यते ध्यानतत्परः । दूरवर्ती महाभागो, गुरुरेष स.७-प्र. ममाधुना ।। २२३ ।। अनेन तत्र सुप्तोऽहं, गाढसंमूढचेतनः । कृपापरीतचित्तेन, यत्नतः प्रतिबोधितः ॥ २२४ ॥ ततः संदर्शितोऽनेन, समस्तोऽपि यथास्थितः । भवारघट्टो मे भद्र !, ततश्चेदं निवेदितम् ॥ २२५ ॥ यदुत-स्वामी त्वमस्य सर्वस्य, फलभोक्ता न संशयः । ॥६२४॥ दजन्तो! भवारघट्टस्य, किं न जानासि ? मूढक! ॥ २२६ ॥ केवलं-अनन्तदुःखसन्तानहेतुस्ते नात्र संशयः। जन्तो! भवारघट्टोऽयं, ततश्चेमं परित्यज ॥ २२७ ॥ मयोक्तं यथा त्यक्तो भवत्येष, साधो! तन्मे निवेदय । मुनिनोक्तं महासत्त्व!, प्रव्रज्या गृह्यतामियम् का॥२२८ ॥ एनां भागवतीं दीक्षां, ये गृहन्ति नरोत्तमाः । भावतस्तैः प्रहीणोऽयमरघट्टो भक्त्यलम् ॥ २२९ ॥ ततस्तथेति भावेन, प्रतिपद्य मुनेर्वचः । कृतं मयेदं मे भद्र !, जातं वैराग्यकारणम् ॥ २३० ॥ ततोऽकलङ्कस्तच्छ्रुत्वा, तं मुनिं प्रत्यभाषत । भदन्त ! चारु संपन्नं, तव वैराग्यकारणम् ॥ २३१ । कस्य वा न भवत्येष, सकर्णस्य विरक्तये । भवारघट्टो जीवस्य, दृष्टिगोचरतां गतः १ ॥ २३२ ॥ ततोऽभिनन्द्य तं साधु, वन्दित्वा भक्तिनिर्भरः । सोऽकलको मया सार्ध, तुर्यसाध्वन्तिके गतः ।। २३३ ।। अथ वन्दनकं कृत्वा, मम बोधविधित्सया । पृष्टस्तेन महाभागः, सोऽपि वैराग्यकारणम् ॥ २३४ ॥ मुनिराह वयं चट्टा, नानारूपाः क्वचिन्मठे । तिष्ठामस्तत्र चायातमस्मद्भक्तं कुटुम्बकम् ॥ २३५ ॥ अनेकमानुषैर्युक्तं, पञ्चमानुषतत्रितम् । अस्माभिः प्रतिपन्नं तकिलेदं हितवत्सलम् ॥२३६॥ युग्मम् । शत्रुरूपं च तद्र, वर्तते परमार्थतः । ततस्तेन कृतं चित्रं, सादरं छात्रभोजनम् ।। २३७ ॥ अथाविज्ञातसद्भावाश्चित्रभोजनलोलुपाः । लते छात्रा भक्षणाज्जाता, नितरां पूरितोदराः ॥ २३८ ॥ तच्च तैर्मानुषैस्ताहअत्रयोगैर्विनिर्मितम् । भोजनं येन तज्जातं, सन्निपातस्य कार णम् ॥ २३९ ॥ तथोन्मादकर भद्र!, जीर्यमाणं भवत्यलम् । केषांचित्तत्र चट्टानां, तदन्नमतिदारुणम् ॥ २४० ॥ ततो निरुद्धगलका, ॥६२४॥ Jain Education For Private & Personal Use Only N w .jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy