________________
उपमितौ
स. ७-प्र.
॥ ६२३ ॥
Jain Education Inte
नत्वा, भक्तिपूरितचेतसा । ततः पृष्टोऽकलङ्केन, सोऽपि वैराग्यकारणम् ॥ २०३ ॥ तेनोक्तमरघट्टो मे, जातो वैराग्यकारणम् । तदाककलङ्केन, चेतसा परिचिन्तितम् ॥ २०४ ॥ अये ! — यादृशं मुनिना पूर्व, प्रदीपनकमीरितम् । आपानकं च तन्नूनमरघट्टोऽपि ता - दृशः ॥ २०५ ॥ अथोक्तमकलङ्केन, तदानीं स्मितबन्धुरम् । निवेदय महाभाग !, तं मम प्रकटाक्षरैः ॥ २०६ ॥ मुनिनोक्तं मया दृष्टः, सोऽरघट्टो नरोत्तम ! । नित्यं युक्तो वहन्नुचैः, संपूर्णो भवनामकः ॥ २०७ ॥ रागद्वेषमनोभावमिथ्यादर्शननामकाः । चत्वारः कर्षकास्तत्र, ते च सारथयो मताः ॥ २०८ ॥ महामोहः पुनस्तत्र, सर्वसीरपतिः स्मृतः । सोऽरघट्टो वहत्यस्य, प्रतापेन महात्मनः ॥ २०९ ॥ | विनापि चारीपानीयं, वेगवन्तो बलोद्धताः । कषायसंज्ञकास्तत्र, बलीवर्दास्तु षोडश ॥ २१० ॥ हास्यशोकभयाद्यास्तु, निपुणाः कर्मकारकाः । जुगुप्सारत्यरत्याद्यास्तेषां च परिचारिकाः ॥ २११ ॥ दुष्टयोगप्रमादाख्यं तत्र तुम्बद्वयं महत् । विलासोल्लासबिब्बोकरूपास्तत्रारकाः स्मृताः ॥ २१२ ॥ पापाविरतिपानीयपूर्णादृष्टतलः सदा । तत्रासंयतजीवाख्यः, कूपो दृष्टो भयङ्करः ॥ २१३ ॥ पापाविरतितोयौघमग्नपूरितरेचितम् । सुदीर्घ जीवलोकाख्यं, घटीयमुदाहृतम् ॥ २१४ ॥ मरणाख्यैः पुनर्नित्यं, वहन्नेष विभाव्यते । पट्टिका - घट्टखाटारैर्दूरादपि विवेकिभिः || २१५ ।। अज्ञानमलिनात्माख्यो, ज्ञेयस्तत्र प्रतीच्छकः । दृढं मिथ्याभिमानाख्यं तस्य दापटिकं मतम् ॥ २१६ ॥ संष्टिचित्तता नाम, तत्र निर्वहणी मता । भोगलोलुपता नाम, कुल्या तत्रातिदीर्घिका ॥ २१७ ॥ जन्मसन्तानसंज्ञं तु, तत्र बीजमुदाहृतम् । अपरापरजन्माख्यास्तत्र केदारका मताः ।। २१८ ।। कर्मप्रकृतिजालाख्यं, तत्र बीजमुदाहृतम् । तज्जीवपरिणामाख्यो, वापकस्तस्य कीर्तितः ॥ २१९ ॥ ततश्च - उप्तं तेनारघट्टेन, सिक्तं निष्पत्तिमागतम् । सुखदुःखादि सस्यौघजनकं तदुदाहृतम् ॥ २२० ॥ सेचनार्थं पुनस्तस्य सदोत्साहपरायणः । पानान्तिकोऽस्त्यसद्बोधो, महामोहनिरूपितः ॥ २२९ ॥ तदेवं सर्वसामग्रीसंयुक्त सततभ्रमे ।
For Private & Personal Use Only
भवारघट्टः
॥ ६२३ ॥
w.jainelibrary.org