________________
भवापानकं
उपमितौ स.७प्र.
॥६२२॥
धनम् ॥ १८४ ॥ व्याधिप्रस्तो यथाऽऽरोग्यलेशमासादयन् बुधः । कष्टेऽप्युपक्रमे धीरः, सम्यकप्रीत्या प्रवर्तते ॥ १८५ ॥ संसार- व्याधिना प्रस्तस्तद्विज्ञेयो नरोत्तमः । शमारोग्यलवं प्राप्य, भावतस्तदुपक्रमे ॥ १८६ ।। प्रवर्तमान एवं च, यथाशक्ति स्थिराशयः । शुद्धं चारित्रमासाद्य, केवलं लभते क्रमात् ॥ १८७ ॥ ततः स सर्वविद्भूत्वा, भवोपग्राहिकर्मणः । ज्ञानयोगात्क्षयं कृत्वा, मोक्षमाप्नोति शाश्व| तम् ।। १८८ ॥ सत्साधुगुरुसंपाद्या, सेयं.कल्याणमालिका । प्रायेण चास्य जीवस्य, यतः प्रोक्तं मनीषिभिः ॥ १८९ ॥ किं तत् ?"साधुसेवा सदा भक्त्या, मैत्री सत्त्वेषु भावतः । आत्मीयग्रहमोक्षश्च, धर्महेतुप्रसाधनम् ।। १९० ॥ उपदेशः शुभो नित्यं, दर्शनं धर्म"चारिणाम । स्थाने विनय इत्येतत् , साधुसेवाफलं महत् ।। १९१ ॥ तथा–मैत्री भावयतो नित्यं, शुभो भावः प्रजायते । ततो भावो"दकाजन्तोद्वेषाग्निरुपशाम्यति ॥ १९२ ॥ तथा—अशेषदोषजननी, निःशेषगुणघातिनी । आत्मीयग्रहमोक्षेण, तृष्णा हि विनिवर्तते |
॥ १९३ ॥ एवं गुणगणोपेतो, विशुद्धात्मा स्थिराशयः । तत्त्वविद्भिः समाख्यातः, सम्यग्धर्मस्य साधकः ॥ १९४ ॥” ततोऽनेनापि | | मुनिना, ब्राह्मणाकारधारकैः । अहं बोधित इत्युक्तं, साधुभिः करुणापरैः ।। १९५ ॥ ततोऽमुनाऽनुसारेण, यदनेन कथानके । प्रागुक्तं | तत्स्वयं योज्यं, स्पष्टत्वान्नाभिधीयते ।। १९६ ॥ अपिच-कर्ममद्यरताः सर्वे, भद्राविरतजन्तवः । भवापानकमध्येऽपि, साधवस्तत्पराडाखाः ॥ १९७ ॥ तेरेष यत्नतः साधुः, कर्ममद्यान्निवारितः । ततः प्रबजितो जात, इदं वैराग्यकारणम् ॥ १९८॥ प्रव्रज्यया च | तत्कर्म, मद्याजीर्णमयं मुनिः । जरयित्वा भवापानाद्वहिर्भूतो भविष्यति ॥ १९९ ॥ किं च युक्तमीहशे स्थातुमावयोरपि पिच्छिले । |संसारापानके भद्र !, दुःखदे घनवाहन! ॥ २०॥ ततोऽगृहीतसङ्केते !, भद्रे तत्तादृशं वचः । आकलई न मेऽद्यापि, बोधकारणतां Piगतम् ॥ २०१॥ स्थितोऽहं मौनमालम्ब्य, शून्यारण्ये मुनिर्यथा । अथाकलङ्कः संप्राप्तो, मुनेर्मूलं मया सह ॥ २०२ ॥ तदंहियुगलं
॥६२२॥
Jain Education in the
For Private
Personel Use Only
Jainelibrary.org