________________
उपमितौ
स. ७प्र.
॥ ६२१ ॥
Jain Education In
| मुनिना तेन दीपितः ॥ १६५ ॥ यत्तु तैर्ब्राह्मणैः पञ्चादृष्टोऽहं प्रतिबोधितः । यश्चेनेत्यादि तत्सर्व, युज्यमानमुदाहृतम् ॥ १६६ ॥ तथाहि भवापानकं - अनादिभवभावस्य तत्स्वभावत्वयोगतः । उत्कृष्टाद्यास्वतीतासु, तथा कर्मस्थितिष्वलम् ।। १६७ ।। भूयो भूयः सुसाधूनां सम्पर्केऽपि नरादिषु । प्राप्ते द्रव्यश्रुते भूरिवाराघर्षणघूर्णनात् ।। १६८ ।। यन्नावाप्नोति सम्यक्त्वं, न ज्ञानं नापि सत्क्रियाम् । जीवः सुसाधुमध्येऽपि, कर्ममद्येन घूर्णितः ॥ १६९ ॥ सोऽयं घस्मरको भद्र !, घोरो भूरिभवावहः । येन विभ्रात्वचित्तोऽयं, बम्भ्रमीति पुनः पुनः ॥ १७० ॥ समस्तेष्वनुकूलेषु, ततः कालादिहेतुषु । राधावेधोपमं भद्र !, जीवोऽयमतिदुर्लभम् ॥ १७१ ॥ सद्दर्शनमवाप्नोति, कर्मप्रन्थि सुदारुणम् । निर्भिद्य शुभभावेन, कदाचित्कश्चिदेव हि ॥ १७२ ॥ युग्मम् । सुसाधुब्राह्मणानां भो, जीवं पूत्कुर्वतामलम् | धर्मदेशनया बोधः, सोऽयं हुंकार उच्यते ॥ १७३॥ दर्शनं मुक्तिबीजं च सम्यक्त्वं तस्ववेदनम् । दुःखान्तकृत् सुखारंभः, पर्यायास्तस्य कीर्तिताः ॥ १७४॥ सति चास्मिन्नसौ धन्यः, सम्यग्दर्शनसंयुतः । तत्त्वश्रद्धानपूतात्मा, रमते न भवोदधौ ॥ १७५ ॥ स पश्यत्यस्य यद्रूपं, भावतो बुद्धिचक्षुषा । सम्यक्छास्त्रानुसारेण, रूपं नष्टाक्षिरोगवत् ॥ १७६ ॥ तद्दृष्ट्वा चिन्तयत्येवं प्रशान्तेनान्तरात्मना । भावगर्भ यथाभावं परं संवेगमाश्रितः ॥ १७७ ॥ यदुत - "जन्ममृत्युजराव्याधिरोगशोकाद्युपद्रुतः । क्लेशाय केवलं पुंसामहो भीमो भवोदधिः ॥ १७८ ॥ सुखाय तु परं मोक्षो, जन्मा" दिक्केशवर्जितः । भयशक्त्या विनिर्मुक्तो, व्याबाधावर्जितः सदा ॥ १७९ ॥ हेतुर्भवस्य हिंसादिर्दुःखाद्यन्वयदर्शनात् । मुक्तेः पुनरहिंसा“दिर्व्याबाधाविनिवृत्तितः ।। १८० ॥ बुद्धैव भवनैर्गुण्यं, मुक्तेश्च गुणरूपताम् । तदर्थं चेष्टते नित्यं, विशुद्धात्मा यथागमम् ॥ १८१ ॥” दुष्करं क्षुद्रसत्त्वानामनुष्ठानं करोत्यसौ । मुक्तौ दृढानुरागत्वात्कामीव वनितान्तरे ।। १८२ ॥ उपादेयविशेषस्य, न च सम्यक्प्रसाधनम् । दुनोति चेतोऽनुष्ठानं, तद्भावप्रतिबन्धतः ॥ १८३ ॥ ततश्च दुष्करं तन्न, सम्यगालोच्यते यदा । अतोऽन्यदुष्करं न्यायाद्धेयवस्तुप्रसा
For Private & Personal Use Only
२०
॥ ६२१ ॥
ww.jainelibrary.org