________________
उपमितौ
स. ७- प्र.
॥ ६२० ॥
Jain Education
"हृषीकाणि तद्विभूषकतया लौल्यहेतुतया च घूर्णन्ते कर्ममद्यमत्ताः सर्वेऽमी जन्तवः, कुर्वन्ति रासविलासलासविकासहासबिब्बोकादि| "कलकलं मर्दलायन्तेऽत्र कलहाः कंसालकायन्ते सगसगायन्तः खलजनाः वीणायन्ते दुःखितजनपरिदेवनानि वंशरवायन्ते सशोकलो" ककरुणकूजितानि मुगुन्दशब्दायन्ते आपद्गतजनतिमितिमायितानि कंसिकायन्ते प्रियविप्रयोगादौ जनदैन्यरुण्टितानि वोद्रवृन्दायन्ते " गाढमज्ञतया मूर्खलोकाः कमनीयनरायन्ते विबुधाः प्रौढललनायन्ते तदप्सरसः, अनादिनिधनं चेदं संसारापानकं सदा निविष्टं लो“काकाशभूमौ युक्तं नर्तनगानविलसनखादनपानदानमानविभूषणादिभिः समस्तभावलल्याभिवृद्धिकारणं जडानां विरागताहेतुर्विवे“किनां” । ये चानेन मुनिना तत्रापानके त्रयोदशभेदा लोकाः कथितास्तेऽत्र जीवा द्रष्टव्याः, तथाहि — प्रथमं प्रतिपादितस्तावदसांव्यव| हारिको जीवराशिः तदनन्तरं निवेदिताः सांव्यवहारिका वनस्पतयः ततः कथिताः पृथिव्यप्तेजोवायवः ततो दर्शिता द्वीन्द्रियाः ततो निर्दिष्टास्त्रीन्द्रियाः ततो वर्णिताश्चतुरिन्द्रियाः ततः प्रख्यापिता असंज्ञिपञ्चेन्द्रियाः ततः प्रकीर्तिता नारकाः ततः संगीताः पञ्चेन्द्रियतिर्यञ्चः तदनन्तरमुद्दिष्टाः संमूर्च्छनजगर्भजभेदेन द्विविधा मनुष्याः ततः प्रकाशिताश्चतुर्निकायवर्तिनो देवाः ततः प्रकाशिता ब्राह्मणा इति वाचोयुक्त्या संयतमनुष्याः ततः संशब्दिताः संसारापानकाद्वहिर्भूता भगवन्तो मुक्तात्मानः उद्योतितं सर्वेषां सम्बन्धि संख्याप्रमाणं निगदितं लेशोद्देशतो लक्षणं सूचितानि तेषां सम्बन्धीनि विविधसंविधानकानि, अभिहितञ्च स तदा तन्मध्ये कर्ममद्यपानेन मुनिनाऽऽत्मा | आख्यातमसांव्यवहारिकजीवराशिमध्ये प्रथममात्मनोऽवस्थानं प्रकटितमनन्तकालात्कथंचित्ततो निर्गमनं तदनन्तरमाविर्भावितः सांव्यवहारिकवनस्पतिष्वात्मनो निवासः ततो व्याकृतं दशस्वपि स्थानेषु भूयो भूयः पर्यटनं निषिद्धमसांव्यवहारिकसंयतमनुष्यमुक्तात्मसु गमनं | विस्फारितास्तेषु दशसु स्थानेष्वात्मनः संभविन्यस्तीत्रदुःखविडम्बनाः, तदेवं भद्र ! संसारो, महापानकसन्निभः । आत्मनो दुःखहेतुश्च,
For Private & Personal Use Only
भवापानक
॥ ६२० ॥
www.jainelibrary.org