________________
उपमितौ
प. ६-प्र.
॥ ६१९ ॥
मानो जनैः सह । आस्फोट्यमानो बलिभिः, कुट्यमानः क्षणे क्षणे ॥ १६३ ॥ प्रहारजर्जरो देहे, दुःखलक्षैः प्रपीडितः । एवं विचरित - स्तत्र, भद्राहं बहुशस्तदा ॥ १६४ ॥ चतुर्भिः कलापकं । अन्यदा दृष्टोऽहं तैरापानकमध्यस्थैर्ब्राह्मणैः संजाता तेषां भगवतां ममोपरि करुणा, चिन्तितमेतैः यथा - अयं मद्यदोषेण भूरि दुःखमनुभवति वराकः, ततः कथंचित्कारयामोऽमुं मद्यविरतिं येन यथा वयं सुखिनः संपन्नास्तथाऽयमपि सुखितो भवति, ततो विहितस्तैर्मम प्रतिबोधनार्थं यत्नः, अहं तु मदिरामदाघूर्णितः पूत्कुर्वतामपि तेषां न किंचिचेतयामि अलब्धचेतनञ्च पुनः पुनः पर्यटामि तेषु सर्वेषु लोकभेदेषु, बहुशो वदतां पुनः कचित्तेषां ब्राह्मणानां दत्तो मया हुंकारः ततस्तावत्तैर्यतितं यावदपगतो मे मदिराघस्मरकः समासादिता चेतना दत्तं प्रतिवचनं, ततः कथितास्तैर्मम मद्यदोषाः प्रत्यायितोऽहं कारितो मद्यविरतिं, संजातोऽहमपि तादृशो ब्राह्मणः, ते तु ब्राह्मणाः सर्वेऽपि प्रत्रजिताः ततोऽहमपि तेषां मध्ये प्रत्रजितः, केवलं न जीर्यति ममाद्यापि निःशेषं मद्याजीर्ण, तदपि प्रत्रज्यया जरयिष्यामि, तदिदं भद्र! मम वैराग्यकारणमिति । तदेवं भद्रेऽगृहीतसङ्केते! यावदिद| मावेदयति स साधुस्तावदकलङ्कस्य किमनेन निवेदितमिति प्रवृत्तो विमर्शः, ततो विचारयतः संजातं जातिस्मरणं स्मृतं पूर्वभवाभ्यस्तं श्रुतं ततो लक्षितो मुनिवचनस्य भावार्थः प्रमुदितो मनसा वन्दितो मुनिवरः प्रवृत्तस्तृतीयमुनेरभिमुखं, पूर्ववत्पुनः पृष्टो मया यथा किमनेनाख्यातमिति, ततोऽभिहितमकलङ्केन — भद्र ! घनवाहन अयमपि संसार एवापानकरूपतयाऽनेन मुनिनाऽऽत्मनो वैराग्यकारणमित्याख्यातः, तथाहि — “सत्यमापानकरूप एवायं हन्त संसारो वर्तते यतोऽत्र वृत्ता वर्तन्ते वर्त्स्यन्ति चानन्ता वृत्तान्ता:, मत्तपालका" (मद्यपा ) यन्तेऽत्रानन्ता जीवाः, विविधमद्यायतेऽष्टविधं कर्मप्रकृतिजालं विशेषतः पुनरासवायन्ते कषायाः सरकायन्ते नोकषायाः सुरा"यन्ते घातिकर्माणि विचित्रभाजनायन्ते आयूंषि तदाधारतया चषकायन्ते जन्तुशरीराणि कर्ममद्योपयोगहेतुतया नीलनीरजायन्ते तेषु
Jain Education Internation
For Private & Personal Use Only
भवापानकं
॥ ६१९ ॥
www.jainelibrary.org