SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ उपमितौ प. ६-प्र. ॥ ६१७ ॥ कार्याणि विदधत्यन्तराऽन्तरा ॥ १२६ ॥ तथाऽन्ये तादृशा एव, मदिरामदघूर्णिता: । असंख्यास्तत्र विद्यन्ते, नरा भोः पार्थिवादयः ॥ १२७ ॥ अन्ये पुनरसंख्याता, निर्भरं मद्यपायिनः । न जिघ्रन्ति न पश्यन्ति, नापि शृण्वन्ति किंचन ॥ १२८ ॥ लुठन्तः केवलं भूमावाराटीर्मुञ्चमानकाः । लिहन्ति जिह्वया किंचिन्मदेन हृतमानसाः ॥ १२९ ॥ तथाऽपरे पुनस्तत्र, लोका जिघ्रन्ति किंचन । न शूण्वन्ति न पश्यन्ति तेऽप्यसंख्याः प्रकीर्तिताः ॥ १३० ॥ अन्ये तु लोचनोन्मेषात्पश्यन्तोऽपि पुरः स्थितम् । नाकर्णयन्त्यसंख्याता, मदाघूर्णितचेतनाः ॥ १३१ ॥ संख्यातीताः पुनर्भद्र !, लोकास्तत्रापरे मया । मदिरामददोषेण, लक्षिताः शून्यमानसाः ॥ १३२ ॥ अन्ये पुनरसंख्याता, दृष्टाः प्रस्पष्टचेतनाः । केवलं तेषु दुर्मद्यं सदाकालमवस्थितम् ॥ १३३ ॥ ततश्चैते — छिद्यन्ते भद्र ! भिद्यन्ते, पाठ्यन्ते रुष्टवैरिकैः । परस्परमदाध्माताः कुर्वन्ते तीव्रवेदनाः ॥ १३४ ॥ असंख्याः पुनरन्येऽपि, लोकास्तत्र विलोकिताः । आपानके मया सोम्य !, मदिरोद्धान्तचेतसः ॥ १३५ ॥ नास्ति तेषामकर्तव्यं, विभ्रतां पशुरूपताम् । आराटीस्तेऽपि मुभ्वन्ति, गच्छन्ति जननीमपि ॥ १३६ ॥ धर्माधर्म न जानन्ति, सर्वकार्याणि कुर्वते । अव्यक्तघोषास्तिष्ठन्ति, लोलमाना महीतले ॥ १३७ ॥ केचिदुत्प्लुत्य गच्छन्ति, मदिरान्धा विहायसा । केचिज्जले निमज्जन्ति, नितरां मदनिर्भराः ॥ १३८ ॥ अन्यच्च तेऽपि कुर्वन्ति दुर्मद्यं युध्यन्ते च परस्परम् । सहन्ते तीत्रदुःखानि, मद्यं सर्वापदां पदम् ॥ १३९ ॥ तथाऽन्ये तत्र विद्यन्ते, संख्यातीता मनुष्यकाः । ते पुनर्द्विविधा ज्ञेया, गाढमतास्तथेतरे ॥ १४० ॥ अत्र ये गाढमत्तास्ते, लोलमाना भुवस्तले । वान्तं पित्तं शकृन्मूत्रं, भक्षयन्ति वराककाः ॥ १४१ ॥ इतरे भद्र ! संख्येयास्ते पुनर्मदिरातुराः । युध्यन्ते बहु वान्ते, नृत्यन्त्युचैर्हसन्ति च ॥ १४२ ॥ गायन्ति बहु भाषन्ते, पर्यटन्ति निरर्थकम् । लुठन्ति भूयो धावन्ति, विलासोल्लासतत्पराः ॥ १४३ ॥ मलाविलानि जाम्बालश्लेष्मपूर्णानि योषिताम् । चुम्बन्ति वक्रनेत्राणि, आच Jain Education International For Private & Personal Use Only भवापानकं ॥ ६१७ ॥ ww.jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy