SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ भवापानक उपमिती प. ६-प्र. परायः ॥ १३ ॥ युत्तवृत्तान्तमनध्यामि, तत्सम्यामरकम् ॥ ॥६१६॥ तदा । मौनमालम्बितं भद्रे !, पापपूरितचेतसा ॥ १०९॥ अत्रान्तरे द्वितीयस्य, मुनर्मूलं मया सह । सोऽकलङ्कस्तदा प्राप्तो, विहितं तस्य वन्दनम् ॥ ११०॥ पृष्टश्चावसरे साधुः, किं ते वैराग्यकारणम् ? । मुनिराह यथा सौम्य!, समाकर्णय साम्प्रतम् ॥ १११ ॥ आपानकं मया दृष्टं, मद्यपानपरायणम् । तदेव मम संजातं, भद्र! वैराग्यकारणम् ।। ११२ ॥ मदाघूर्णितसर्वाङ्गस्तत्राहं मत्तपालकः । आसं ततः कपोपेतैाह्मणैः प्रतिबोधितः ॥ ११३ ॥ अकलङ्केनोक्तं यादृगापानकं तद्भो, भवांस्तत्र यथा स्थितः । ये च ते ब्राह्मणाः सर्वमेतदाख्यातुमर्हसि ॥ ११४ ॥ मुनिनोक्तं अनेकवृत्तवृत्तान्तमनन्तजनसङ्कुलम् । यथास्थितं तदापानं, को हि वर्णयितुं क्षमः ? ॥ ११५ ॥ तथापि लेशतः किंचित्तत्स्वरूपं नरोत्तम! । पुरस्ते वर्णयिष्यामि, तत्सम्यगवधारय ॥ ११६ ॥ तद्यथा-बहुभेदवरासवतुष्टजनं, वरभाजनराजिविचित्रसुरम् । शितिनीरजरजितसञ्चषकं, जनमोदनकारणसत्सरकम् ॥ ११७ ॥ मदिरामधूर्णितसर्वजनं, बहुलासविलासविकासकरम् । लसदुद्भूटबोलविगानपरं, कृततालमहारवरासशतम् ॥ ११८ ॥ अन्यच्च-प्रौढमनोरमकान्तजनाढ्यं, गाढमदोद्धरयोषिदुपेतम् । आदिनिवेशविहीनमनन्तं, लोकनभोऽभिधभूमिनिविष्टम् ॥ ११९ । वादितमदलकोटिसकांस्यं, वैणिकनादविवर्धिततोषम् । वंशविरावसमुद्धतवोटूं(द्र), वोटू (द्र)विघोषितगोत्रसहस्रम् ॥ १२० ॥ एवं च-नर्तनगानविलासनपानैः, खादनदानविभूषणमानैः । संततभावरसैः समुपेतं, लोकचमत्कृतिकारणमेतत् ॥ १२१ ॥ तदेवं सर्वसामग्रीयुक्तं दर्शितविभ्रमम् । आपानकं मया भद्र!, & तच्च निलं निषेवितम् ।। १२२ ॥ लोके नास्ति तदाश्चर्य, नापि तत्संविधानकम् । यत्तत्रापानके सौम्य !, न मया प्रविलोकितम् ॥१२३॥ अनन्तास्तत्र विद्यन्ते, ये लोका मदघूर्णिताः । न चेष्टन्ते न भाषन्ते, चिन्तयन्ति न किंचन ॥ १२४ ॥ न च संव्यवहारं ते, किञ्चित् कुर्वन्ति लौकिकम् । मृतमूछितरूपेण, सदा तिष्ठन्ति केवलम् ॥ १२५ ॥ अनन्ताश्चापरे लोकास्तद्रूपाकारधारकाः । किं तु ते लोक ॥६१६॥ Jain Education i n For Private & Personel Use Only Diviww.jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy