SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ भवापानक उपमिती प. ६-प्र. परायः ॥ १३ ॥ युत्तवृत्तान्तमनध्यामि, तत्सम्यामरकम् ॥ ॥६१६॥ तदा । मौनमालम्बितं भद्रे !, पापपूरितचेतसा ॥ १०९॥ अत्रान्तरे द्वितीयस्य, मुनर्मूलं मया सह । सोऽकलङ्कस्तदा प्राप्तो, विहितं तस्य वन्दनम् ॥ ११०॥ पृष्टश्चावसरे साधुः, किं ते वैराग्यकारणम् ? । मुनिराह यथा सौम्य!, समाकर्णय साम्प्रतम् ॥ १११ ॥ आपानकं मया दृष्टं, मद्यपानपरायणम् । तदेव मम संजातं, भद्र! वैराग्यकारणम् ।। ११२ ॥ मदाघूर्णितसर्वाङ्गस्तत्राहं मत्तपालकः । आसं ततः कपोपेतैाह्मणैः प्रतिबोधितः ॥ ११३ ॥ अकलङ्केनोक्तं यादृगापानकं तद्भो, भवांस्तत्र यथा स्थितः । ये च ते ब्राह्मणाः सर्वमेतदाख्यातुमर्हसि ॥ ११४ ॥ मुनिनोक्तं अनेकवृत्तवृत्तान्तमनन्तजनसङ्कुलम् । यथास्थितं तदापानं, को हि वर्णयितुं क्षमः ? ॥ ११५ ॥ तथापि लेशतः किंचित्तत्स्वरूपं नरोत्तम! । पुरस्ते वर्णयिष्यामि, तत्सम्यगवधारय ॥ ११६ ॥ तद्यथा-बहुभेदवरासवतुष्टजनं, वरभाजनराजिविचित्रसुरम् । शितिनीरजरजितसञ्चषकं, जनमोदनकारणसत्सरकम् ॥ ११७ ॥ मदिरामधूर्णितसर्वजनं, बहुलासविलासविकासकरम् । लसदुद्भूटबोलविगानपरं, कृततालमहारवरासशतम् ॥ ११८ ॥ अन्यच्च-प्रौढमनोरमकान्तजनाढ्यं, गाढमदोद्धरयोषिदुपेतम् । आदिनिवेशविहीनमनन्तं, लोकनभोऽभिधभूमिनिविष्टम् ॥ ११९ । वादितमदलकोटिसकांस्यं, वैणिकनादविवर्धिततोषम् । वंशविरावसमुद्धतवोटूं(द्र), वोटू (द्र)विघोषितगोत्रसहस्रम् ॥ १२० ॥ एवं च-नर्तनगानविलासनपानैः, खादनदानविभूषणमानैः । संततभावरसैः समुपेतं, लोकचमत्कृतिकारणमेतत् ॥ १२१ ॥ तदेवं सर्वसामग्रीयुक्तं दर्शितविभ्रमम् । आपानकं मया भद्र!, & तच्च निलं निषेवितम् ।। १२२ ॥ लोके नास्ति तदाश्चर्य, नापि तत्संविधानकम् । यत्तत्रापानके सौम्य !, न मया प्रविलोकितम् ॥१२३॥ अनन्तास्तत्र विद्यन्ते, ये लोका मदघूर्णिताः । न चेष्टन्ते न भाषन्ते, चिन्तयन्ति न किंचन ॥ १२४ ॥ न च संव्यवहारं ते, किञ्चित् कुर्वन्ति लौकिकम् । मृतमूछितरूपेण, सदा तिष्ठन्ति केवलम् ॥ १२५ ॥ अनन्ताश्चापरे लोकास्तद्रूपाकारधारकाः । किं तु ते लोक ॥६१६॥ Jain Education i n For Private & Personel Use Only Diviww.jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy