SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ भवप्रदीपनक उपमितौ | तीर्थमण्डलमध्यस्थैर्न तिष्ठन्ति निवारिताः । नापि प्रशमतोयेन, तत्ते विध्यापयन्न्यहो ॥ ९३ ॥ प्रवेशं च न कुर्वन्ति, तत्र सत्तीर्थम- प.६-प्र. ण्डले । नाकर्णयन्ति तद्वाक्यमुपहासादि कुर्वते ॥ ९४ ॥ केचिदेव प्रबुध्यन्ते, यथाऽयं मुनिसत्तमः । प्रबुद्धो वचनात्तेषां, प्रविष्टस्तीर्थ-18 मण्डले ॥ ९५ ॥ दृष्टाश्चानेन ते लोकाः, संसारोदरचारिणः । रागद्वेषाग्निनाऽत्यन्तं, दह्यमानाः सुविह्वलाः ॥ ९६ ॥ अशुद्धाध्यवसा॥६१५॥ याख्यः, पवनः प्रेरयत्यलम् । तत्र लोकोदरपामे, तं रागद्वेषपावकम् ॥ ९७ ॥ ततः सोऽतिभरीभूतो, जीवान प्रामेयकानिव । दहत्या| रटतोऽमीषां, मुनीनां पश्यतामपि ॥ ९८ ।। यत्पुनरनेन मुनिनाऽभिहितं, यथा ते तु मण्डलस्था लोकाः कियन्तोऽपि प्रव्रजितास्ततो-18 |ऽहमपि तेषां मध्ये प्रव्रजितः, तद्भद्र ! घनवाहन! वक्रोक्तिगर्भमवगन्तव्यं, मयोक्तं—कुमार! कथमीदृशी पुनरत्र वक्रोक्तिः?, अकलङ्केनोक्तं—सत्तीर्थमण्डले तत्र, यतो लोकाश्चतुर्विधाः । साधवः श्रावकाः साध्व्यः, श्राविकाश्च व्यवस्थिताः ।। ९९ ॥ ततः प्रव्रजितास्तत्र, कियन्तोऽपि न शेषकाः । एषोऽपि च मुनिस्तेषां, मध्ये प्रव्रजितः स्फुटम् ॥ १०० ॥ तदेवमीदृशं भद्र!, वक्रोक्त्या तेन साधुना । प्रदीपनकमुद्दिष्टं, चार वैराग्यकारणम् ॥ १०१ ॥ इदं च सकलं बुद्धं, यच्चमत्कारकारणम् । मया कथयतोऽस्यैव, हृष्टोऽहं तेन चेतसा ॥१०२॥ चिन्तितं च मया भद्र!, सत्यमेतन्मुनेर्वचः । सतां सदा प्रदीप्तो हि, भवो वैराग्यकारणम् ॥१०३॥ तथाहि-प्रदीपन-| कदाहेन, दाहयन्तीह मानवाः । आत्मानं ये जडास्तस्मान्निस्सरन्ति महाधियः ।। १०४ ॥ अन्यच्च-आवयोः प्रतिबोधार्थमिदमेतेन साधुना । प्रदीपनकमुद्दिष्टमात्मवैराग्यकारणम् ॥ १०५ ॥ तथाहि किल-प्रदीपनकसङ्काशे, संसारे दह्यमानयोः । युवयोरपि युक्तं हि, प्रवेष्टुं तीर्थमण्डले ॥ १०६ ॥ भावतोऽत्र प्रविष्टानां, धन्यानां तीर्थमण्डले । रागद्वेषाग्निना दाहो, न समस्ति कदाचन ॥ १०७ ॥ ए-1 तञ्च रोचते मह्यं, मुनेराकूतमुत्तमम् । तुभ्यं किं रोचते नेति, न जाने धनवाहन! ॥ १०८ ॥ ततो मयाऽकलङ्कस्य, तच्छ्रुत्वा वचनं ४ Jaln Education Internath For Private & Personel Use Only www.jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy