SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ भवप्रदीपनक उपमितौ | तीर्थमण्डलमध्यस्थैर्न तिष्ठन्ति निवारिताः । नापि प्रशमतोयेन, तत्ते विध्यापयन्न्यहो ॥ ९३ ॥ प्रवेशं च न कुर्वन्ति, तत्र सत्तीर्थम- प.६-प्र. ण्डले । नाकर्णयन्ति तद्वाक्यमुपहासादि कुर्वते ॥ ९४ ॥ केचिदेव प्रबुध्यन्ते, यथाऽयं मुनिसत्तमः । प्रबुद्धो वचनात्तेषां, प्रविष्टस्तीर्थ-18 मण्डले ॥ ९५ ॥ दृष्टाश्चानेन ते लोकाः, संसारोदरचारिणः । रागद्वेषाग्निनाऽत्यन्तं, दह्यमानाः सुविह्वलाः ॥ ९६ ॥ अशुद्धाध्यवसा॥६१५॥ याख्यः, पवनः प्रेरयत्यलम् । तत्र लोकोदरपामे, तं रागद्वेषपावकम् ॥ ९७ ॥ ततः सोऽतिभरीभूतो, जीवान प्रामेयकानिव । दहत्या| रटतोऽमीषां, मुनीनां पश्यतामपि ॥ ९८ ।। यत्पुनरनेन मुनिनाऽभिहितं, यथा ते तु मण्डलस्था लोकाः कियन्तोऽपि प्रव्रजितास्ततो-18 |ऽहमपि तेषां मध्ये प्रव्रजितः, तद्भद्र ! घनवाहन! वक्रोक्तिगर्भमवगन्तव्यं, मयोक्तं—कुमार! कथमीदृशी पुनरत्र वक्रोक्तिः?, अकलङ्केनोक्तं—सत्तीर्थमण्डले तत्र, यतो लोकाश्चतुर्विधाः । साधवः श्रावकाः साध्व्यः, श्राविकाश्च व्यवस्थिताः ।। ९९ ॥ ततः प्रव्रजितास्तत्र, कियन्तोऽपि न शेषकाः । एषोऽपि च मुनिस्तेषां, मध्ये प्रव्रजितः स्फुटम् ॥ १०० ॥ तदेवमीदृशं भद्र!, वक्रोक्त्या तेन साधुना । प्रदीपनकमुद्दिष्टं, चार वैराग्यकारणम् ॥ १०१ ॥ इदं च सकलं बुद्धं, यच्चमत्कारकारणम् । मया कथयतोऽस्यैव, हृष्टोऽहं तेन चेतसा ॥१०२॥ चिन्तितं च मया भद्र!, सत्यमेतन्मुनेर्वचः । सतां सदा प्रदीप्तो हि, भवो वैराग्यकारणम् ॥१०३॥ तथाहि-प्रदीपन-| कदाहेन, दाहयन्तीह मानवाः । आत्मानं ये जडास्तस्मान्निस्सरन्ति महाधियः ।। १०४ ॥ अन्यच्च-आवयोः प्रतिबोधार्थमिदमेतेन साधुना । प्रदीपनकमुद्दिष्टमात्मवैराग्यकारणम् ॥ १०५ ॥ तथाहि किल-प्रदीपनकसङ्काशे, संसारे दह्यमानयोः । युवयोरपि युक्तं हि, प्रवेष्टुं तीर्थमण्डले ॥ १०६ ॥ भावतोऽत्र प्रविष्टानां, धन्यानां तीर्थमण्डले । रागद्वेषाग्निना दाहो, न समस्ति कदाचन ॥ १०७ ॥ ए-1 तञ्च रोचते मह्यं, मुनेराकूतमुत्तमम् । तुभ्यं किं रोचते नेति, न जाने धनवाहन! ॥ १०८ ॥ ततो मयाऽकलङ्कस्य, तच्छ्रुत्वा वचनं ४ Jaln Education Internath For Private & Personel Use Only www.jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy