SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ उपभतौ प. ६-प्र. ॥ ६१४ ॥ Jain Education Inter वास्तव्यको ह्येष, स संसारः प्रतीयताम् ॥ ७४ ॥ रात्रिरेव सदा तत्र, महामोहतमोमयी । रागद्वेषाग्निना तस्यां नित्यलग्नं प्रदीपनम् ॥ ७५ ॥ धूमोऽत्र तामसो भावः, स च तत्र प्रसर्पति । ज्वालाकलापसंकाशो, राजसो भाव उच्यते ॥ ७६ ॥ अन्यच्च तत्र संसारप्रदीपनके—– समुल्लसन्ति कलहा, वंशस्फोटरवैः समाः । रागद्वेषाग्निनोत्तप्ताः समुत्तिष्ठन्ति जन्तवः ॥ ७७ ॥ ते च कोलाहलं तत्र, कुर्वन्त्येव सुदारुणम् । क्रन्दन्ति डिम्भरूपाभाः, कषायाश्चित्ततापिनः ॥ ७८ ॥ अशुद्धलेश्यासंज्ञाश्च धावन्त्येता महेलिकाः । अन्धा इव रटन्त्यत्र, मूर्खा रागाग्नितापिताः ।। ७९ ।। जानन्तोऽपि क्रियाहीना, नराः क्रोशन्ति पङ्गवः । सदा किलकिलायन्ते नास्तिकाः षिङ्गसन्निभाः ॥ ८० ॥ मुष्णन्ति धर्मसर्वस्वं नृणामिन्द्रियतस्कराः । तथाऽऽत्मगेहसाराणि दह्यन्ते रागवह्निना ॥ ८१ ॥ केचित्तु परिदेवन्ते, तद्दृष्ट्वा कृपणा इव । किं कुर्मः शक्यते नेदं विध्यापयितुमीदृशम् ? ॥ ८२ ॥ तदेवमीदृशं भद्र !, सदा गाढविसंस्थलम् । भवप्रदीपनं रौद्रं, साधुना तेन वर्णितम् ॥ ८३ ॥ परस्परं हि लोकानां तत्र त्राता न विद्यते । अमातापुत्रकं तेन, कारणेन निवेदितम् ॥ ८४ ॥ मत्रवादी पुनस्तत्र, विबुद्धः परमेश्वरः । सर्वज्ञस्तेन चोत्थाय, विहितं तीर्थमण्डलम् ।। ८५ ।। तच गोचन्द्रकाकारे, मध्यलोके प्रकाशितम् । कृतात्मकवचेनैव, सूत्रमन्त्रस्य रेखया ।। ८६ ।। आह्नानं जीवलोकानां, धर्मदेशनया कृतम् । उत्साहिताश्च ते तेन, तीर्थकृन्मत्रवादिना ॥ ८७ ॥ ततः केचिन्महासत्त्वा, भव्याः कल्याणभागिनः । श्रुत्वा भगवतो वाक्यं स्थितास्तत्तीर्थमण्डले ॥ ८८ ॥ ते केवलमतिस्तोका, यतस्ते भवचारिणाम् । अनन्तभागे वर्तन्ते, ते च मुक्ताः प्रदीपनात् ॥ ८९ ॥ अन्ये पुनर्महामूढा, रागद्वेषाग्निदीपितम् । विध्यापयन्ति विषयैस्तत्संसारप्रदीपनम् ॥ ९० ॥ बद्धाः पुत्रकलत्रादौ कुर्वन्ति धनसञ्चयम् । तदिदं तृणकाष्ठानां ॥ ६१४ ॥ भारैर्गाढं विवर्धनम् ॥ ९१ ॥ तथा — मायालोभमदक्रोधान्, कुर्वन्ति सततं जनाः । स एष घृतकुम्भानां, प्रक्षेपस्तस्य वर्धकः ॥ ९२ ॥ भवप्रदीपनकं For Private & Personal Use Only w.jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy