SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ भवप्रदीपनकं -MON उपमितौन्धाः क्रोशन्ति पङ्गवः किलकिलायन्ते पिनाः मुष्णन्ति तस्कराः दह्यन्ते सर्वस्वानि परिदेवन्ते कृपणाः सर्वथा संजातममातापुत्रीयक- मिति, ततस्तादृशे समस्ते ग्रामजनदाहिनि प्रदीपनके विबुद्धः कश्चिदेको मन्त्रवादी, स चोत्थाय स्थितो ग्राममध्यवर्तिनि गोचन्द्रके कृत मनेनात्मकवचं विहितं रेखया विशालं मण्डलं आहूता महता शब्देन ते प्रामेयकलोकाः यथाऽऽगच्छत यूयमत्र मदीयमन्त्रमण्डले प्रविशत ॥६१३॥ येन न दन्दह्यन्ते भवतां सर्वखानि शरीराणि च, ततस्तथा पूत्कुर्वतस्तस्य वचनमाकर्ण्य केचित्स्वल्पतमा लोकास्तत्र तदीयमन्त्रमण्डले प्रविष्टाः, शेषाः पुनरुन्मत्ता इव मत्ता इव हतहृदया इवात्मवैरिका इव ग्रहगृहीता इव तस्मिन्नेव तथाविधे प्रदीपनके दह्यमानेषु तथा सर्वस्वेषु प्रक्षिपन्ति तृणकाष्ठभारान् विध्यापयन्ति घृतभृतघटकैः, ततस्तैस्तैमण्डलमध्यस्थैः प्रोक्ताः-भो भो भद्रा ! नायमस्य प्रदीपनकस्य प्रशमोपायः, किं तर्हि ?, यूयमिदं जलेन वा विध्यापयत अत्र वाऽनेन महात्मना विरचिते मन्त्रमण्डले प्रविशत येनेदं प्रशाम्यति भवतां पायथाऽस्मद्गृहेषु प्रशान्तं, ते तु लोकास्सत्तेषां वचनं केचिन्नाकर्णयन्ति केचिदवधीरयन्ति केचिदुपहसन्ति केचिदुल्लण्ठयन्ति केचिद्विबध्नन्ति | केचित्प्रतिकूलयन्ति केचित्तान्प्रति रुष्यन्ति केचित्प्रहरन्ति, ततस्ते मण्डलस्था लोकाः स्थितास्तान्प्रति मौनेन, केचित्तु पुण्यभाजस्तेषां वचनं कुर्वन्ति, ततो ममापि तथाभवितव्यतया प्रतिभातं तत्तेषां मण्डलस्थानां लोकानां सम्बन्धि वचनं, प्रविष्टोऽहमुत्प्लुत्य तत्र मण्डले हसाष्टास्ते मया ग्रामीणलोकाः प्रबलपवनप्रेरणादतिभरीभूतेन तेन प्रदीपनकेन बलादारटन्तो दह्यमानाः, ते तु मण्डलस्था लोकाः कियन्तो ऽपि प्रबजिताः ततोऽहमपि तेषां मध्ये प्रव्रजितः तदिदं भद्र! मम वैराग्यकारणमिति ॥ ततो हृष्टोऽकलङ्कश्चेतसा चलितो द्वितीयमुनेरभिमुखं, न बुद्धो मया कथानकभावार्थः, ततः पृष्टो मयाऽकलङ्कः-यथा कुमार! किमनेन तवाख्यातमीदृग् वैराग्यकारणम् । इदं || चाकर्ण्य सहसा, किं वा हृष्टोऽसि चेतसा? ॥७३॥ अकलङ्केनोक्तं आकर्णय-योऽयं लोकोदरो प्रामो, मुनिना भो निवेदितः । यत्र उ.भ.५२ 55SRA ॥६१३॥ Jain Education Inter For Private & Personel Use Only Tww.jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy