________________
उपमितौ
स. ७.प्र.
॥ ६१२ ॥
Jain Education Inte
व्याख्यामश्रवणाज्जातः, कुशलोऽसौ जिनागमे ॥ ६२ ॥ तथापि स्नेहभावेन, मया सार्धं दिने दिने । सोऽकलङ्कस्तदा भद्रे !, विलसत्येव लीलया ॥ ६३ ॥ अथान्यदा मया नीतः प्रभाते स विचक्षणः । मनोहारिणि लीलार्थमुद्याने बुधनन्दने ॥ ६४ ॥ ततो ममोपरोधेन, क्रीडित्वा प्रहरद्वयम् । अथ मध्याह्नकालेऽसौ, प्रस्थितो गृहसंमुखम् ॥ ६५ ॥ मयोक्तमत्र विश्रम्य, मन्दिरे काननान्तरे । ततो गेहे गमिध्यावः, स्थीयतां क्षणमात्रकम् ।। ६६ ॥ ततोऽकलङ्कस्तच्छ्रुत्वा मामकं वचनं तदा । उद्यानमध्यभागस्थे, प्रविष्टो जिनमन्दिरे ॥ ६७ ॥ तत्राभिष्टृय सद्भक्त्या, भगवन्तं जिनेश्वरम् । निर्गतेन मया सार्धं दृष्टास्तेन सुसाधवः ॥ ६८ ॥ ते च तत्राष्टमीं मत्वा स्वकीयवसतेस्तदा । आगता लोकनाथस्य, वन्दनार्थमुपोषिताः ॥ ६९ ॥ ततस्ते विधिवत्सर्वे, वन्दित्वा भुवनेश्वरम् । बहिः सिद्धान्तसूत्राणि, गुणयन्ति पृथक् पृथक् ॥ ७० ॥ परस्परं स्थिता दूरे, स्थिरा निर्मलकान्तयः । बहिर्द्वीपसमुद्रेषु, चन्द्रा इव महाधियः ॥ ७१ ॥ अत्यन्त सुन्दराकारा, यथेष्टफलदायिनः । तदानीं ते विराजन्ते कल्पपादपसन्निभाः ॥ ७२ ॥ ततोऽभिहितमकलङ्केन – कुमार ! घनवाहन पश्य पश्येमे मुनयो भगवन्तो मकरकेतना इव रूपेण दिनकरा इव तेजस्वितया सुरशिखरिण इव स्थिरतया सागरा इव गम्भीरतया मह द्विमुरकुमारा इव लावण्य समुदयेन दृश्यन्ते, तत् किं पुनर्भगवताममीषामेवंविधगुणयोगेन भुवनराज्योचितानामपीदृशामत्यन्तदुश्चरकष्टचर्याग्रहणे कारणमभूदिति सकौतुकं नश्चेतः, तदेहि तावत् पृच्छामोऽमून्मुनिपुङ्गवान् भगवतः प्रत्येकं यथा — किं कस्य वैराग्यकारण - मिति, मयोक्तं — एवं भवतु, ततो गतावेकस्य मुनेः समीपं वन्दित्वाऽकलङ्केन पृष्टोऽसौ मुनिः — भदन्त ! किं ते वैराग्यकारणमिति, | मुनिराह — भद्राकर्णय, लोकोदरे ग्रामे वास्तव्यः कुटुम्बिकोऽहं तत्र च ग्रामे रात्रौ समन्तालनं प्रदीपनकं प्रसर्पितं धूमवितानं प्रवृद्धो ज्वालाकलापः समुल्लसितो वंशस्फोटरवः समुत्थिता लोकाः संजातः कोलाहलः रुदन्ति डिम्भरूपाणि धावन्ति महेलाः आरारट्यन्ते
For Private & Personal Use Only
मुनिसमा -
गमः
वैराग्यहे
तुपृच्छा ॥ ६१२ ॥
jainelibrary.org