SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ उपमितौ स.७-प्र. राश्यादिजन्मिनां गुणागुणा: ॥६११॥ "भिरधिकां नरः ॥४७॥ गम्भीरचेष्टितः शूरः, पटुवाक्यो नरोत्तमः । कोपप्रज्ञा (कोपः प्राज्ञो)रणश्रेष्ठो, न त्यागी बन्धुवत्सलः॥४८॥ "गान्धर्ववेदको नित्यं, सेवकश्चेतरे जने । गच्छति त्वरया मार्गे, मीने जातो मनुष्यकः ।। ४९ ॥ तदेवं देव! ये प्रोक्ता, मेषादीनां गुणा "मया । एते पूर्व स्वशिष्येभ्यः, सर्वज्ञेन निवेदिताः ॥ ५० ॥” तथाहि-ज्योतिर्ज्ञानं निमित्तं च, यच्चान्यदपि तादृशम् । अतीन्द्रियार्थ तच्छास्त्रं, सर्व सर्वज्ञपूर्वकम् ॥५१॥ ततोऽत्र व्यभिचारः स्यात् , केवलं नरदोषतः । विभागं हि न जानीते, शास्त्रस्याल्पश्रतो नरः॥ ५२ ॥ एवं च स्थिते-क्रूरग्रहैन दृष्टाश्चेद्बलवन्तश्च राशयः । ततोऽमीषां गुणाः सत्या, नान्यथेत्यवधारय ॥ ५३ ॥ ततो जीमूतराजेनोक्तं एवमेतन्नास्त्यत्र सन्देहः, सम्यगावेदितमायेंण, ततः परिपूज्य दानसन्मानादिना प्रहितः सिद्धार्थः, प्रतिष्ठितं च महानन्दपुरःसरं समुचितसमये मम घनवाहन इति नाम, इतश्वास्ति तस्य जीमूतनृपतेः कनिष्ठो भ्राता नीरदो नाम, तस्य पद्मा नाम महादेवी, सापि तस्मिन्नेवावसरे दारकं प्रसूता, प्रतिष्ठितं तस्याकलङ्क इत्यभिधानं–ततोऽहं लालितोऽत्यन्तं, स च नीरदनन्दनः ।। क्रमेण सुखसन्दोहैस्तत्र वृद्धिमुपागतौ ॥ ५४ ।। क्रीडितं च समं तेन, बाल्ये धूल्यादिना मया । पितृव्यपुत्रभावेन, न जातो विरहः कचित् ।। ५५ ॥ ततश्च-कौमारे वर्तमानस्य, भवितव्यतया तया । सार्धं तेनाकलकेन, मम भैत्री नियोजिता ॥ ५६ ।। जातः परस्परं स्नेहो, निर्मिथ्यं गाढमावयोः । एकोपाध्यायहस्ताच्च, गृहीताः सकलाः कलाः ।। ५७ ।। तथा च ललमानोऽहमकलङ्कश्च सुन्दरि! प्राप्तौ क्रमेण तारुण्यं, मकरध्वजमन्दिरम् ॥ ५८ ॥ स चाकलको बाल्येऽपि, कौमारे यौवनेऽपि च । लघुकर्मतया धन्यो, न स्पृष्टो दुष्टचेष्टितैः ॥ ५९॥ किं तर्हि ?–प्रशान्तमूर्तिः पुण्यात्मा, विनीतो देवपूजकः । प्रियवादी स्थिरोऽत्यन्तं, निर्मलीमसमानसः॥ ६०॥ 8| स्तोकरागः प्रकृत्यैव, विकाररहितः सदा । अज्ञातपरमार्थोऽपि, तत्त्ववेदीव भासते ।। ६१ ॥ ततः सुसाधुसम्पर्काद्भद्रकस्तनिषेवकः । अकलंकजन्ममैत्रीचतेन ततश्चकौमारे वर्तमानस्य, भवितव्य हाताः सकलाः कलाः ॥ ५७ ॥ तथा चलघुकर्मतया धन्यो, न स्पृष्टो । lain Education Intelis . For Private & Personel Use Only ww.jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy