________________
उपमितौ
स. ७- प्र.
॥ ६०९ ॥
| होरा एकादशस्थानस्थिताः शुभतराः पापग्रहा इति, अपिच - जातोऽयमीदृशे राशौ कुमारो देव ! सुन्दरे । येनास्य संपदस्तुङ्गा भवि - ध्यन्ति न संशयः ॥ १३ ॥ राज्ञाऽभिहितं -आर्य ! क एते राशयः के वाऽमीषां गुणा इति श्रोतुमिच्छामि, सिद्धार्थेनोक्तं – देव ! समाकर्णय, राशयस्तावदेते — मेषो वृषो मिथुनः कर्कः सिंहः कन्या तुला वृश्चिको धनुर्मकरः कुम्भो मीन इति, एतेषाममी गुणाः, तद्यथा - "चक्षुर्लोलः सदारोगी, धर्मार्थे कृतनिश्चयः । पृथुजङ्घः कृतज्ञश्च विक्रान्तो राजपूजितः ॥ १४ ॥ कामिनीहृदयानन्ददायको जल“भीरुकः । चण्डकर्मा मृदुश्चान्ते, मेषे जातो भवेन्नरः || १५ || अपमृत्युर्भवेत्तस्य, किलाष्टादशवत्सरे । पञ्चविंशतिपर्यन्तवर्षे वापि “कथंचन ॥ १६ ॥ भ्रष्टस्ताभ्यां पुनर्जीवेच्छतमेकं म्रियेत वा । कृत्तिकास्वर्धरात्रेऽसौ चतुर्दश्यां च मङ्गले ॥ १७ ॥ भोगी दाता शु"चिर्दक्षः, स्थूलगण्डो महाबलः । तेजस्वी रागबहुलः, कण्ठरोगी सुपुत्रकः ॥ १८ ॥ सविलासगतिः सत्यो, लाञ्छनी स्कन्धगण्डयोः । "एवं गुणगणोपेतो, वृषे जातो भवेन्नरः ॥ १९ ॥ स समानां शतं जीवेत्पश्वविंशतिको यदि । भ्रश्येचतुष्पदात्तस्य, मरणं रोहिणीबुधे " || २० || पुष्टाङ्गो दृष्टिलोलश्च, मैथुनासक्तमानसः । धनाढ्यः करुणोपेतः, कण्ठरोगी जनप्रियः ॥ २१ ॥ गान्धर्वनाट्यकुशलः, "कीर्तिभागी गुणाकरः । गौरो दीर्घः पटुर्वाचि, मिथुनोद्भूतमानवः ॥ २२ ॥ जले तस्यापमृत्युः स्याद्वत्सरे किल षोडशे । अशीतिको “म्रियेतासौ, पौषमासे जलानले ॥ २३ ॥ कार्यसारो धनी शूरो, धर्मिष्ठो गुरुवत्सलः । शिरोरोगी महाबुद्धिः, कृशाङ्गः कृतवेदकः " || २४ ॥ प्रवासशीलः कोपान्धो, बाल्ये दुःखी सुमित्रकः । भृतभृत्यो मनाग्वक्रः, कर्कटोद्भूतमानवः ॥ २५ ॥ पतनेन म्रियेतासौ, "वर्षाणां विंशतौ नरः । अशीतौ वा पुनः पौषे, मृगशीर्षे सिते निशि ॥ २६ ॥ क्ष्मी मानी क्रियायुक्तो, वत्सलो मद्यमांसयोः । देश ॥ ६०९ ॥ "भ्रमणशीलच, विनीतः शीतभीरुकः ॥ २७ क्षिप्रकोपी सुपुत्रश्च जननीजनकप्रियः । व्यसनी प्रकटो लोके, सिंहे जातो मनुष्यकः
॥
Jain Education International
For Private & Personal Use Only
राश्यादिजन्मिनां गुणागुणाः
www.jainelibrary.org