SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ उपमितौ स. ७-प्र. अथ सप्तमः प्रस्तावः। घनवाहनजन्म 0000000pour ॥६०८॥ अथास्ति जगदाह्रादं !, साहादं नाम तत्पुरम् । निःशेषभुवनाश्चर्यकारणं दुःखवारणम् ॥ १॥ यत्र रूपेण वीर्येण, मिथःस्नेहेन ली-1 लया। मिथुनानि प्रकुर्वन्ति, रतिमन्मथविभ्रमम् ॥ २॥ तत्र निर्दलिताशेषशत्रुपूगो महारथः । तेजःप्रणतसामन्तो, जीमूतो नाम पार्थिवः ॥ ३ ॥ तस्यास्ति रतिसङ्काशा, रतिसन्दोहदायिका । लीला नाम महादेवी, सर्वान्तःपुरनायिका ॥ ४ ॥ अथागृहीतसङ्केते !, भवितव्यतया तया । तदाऽहं गुडिकादानात्तस्याः कुक्षौ प्रवेशितः ॥ ५ ॥ ततोऽहं नरकाकारे, मासान्नव समर्गलान् । तत्र स्थित्वा विनिष्क्रान्तो, योनियत्रनिपीडितः ॥ ६॥ अथ मां वीक्ष्य सा लीला, स्निग्धलोलविलोचना । जातो मे पुत्रकश्चारुरिति तोषमुपागता ॥७॥ जात एवं मया साधं, सोऽपि पुण्योदयस्तथा । केवलं नान्तरङ्गत्वात्स दृष्टो बत लीलया ॥ ८ ॥ अथ जीमूतराजाय, प्रियङ्का निवेदितः । दत्तं तस्यै महादानं, तेन संतुष्टचेतसा ॥ ९॥ प्रवर्तितो महानन्दः, कृतं बन्धनमोचनम् । प्रहृष्टं निखिलं राज्यं, वादितानन्दमर्दलम् ॥ १०॥ गानपानमहादानखादनप्रवणे जने । अथ निर्वर्तितप्राये, तत्र जन्ममहोत्सवे ।। ११ ॥ ज्योतिःशास्त्रे कृतोद्योगः, सिद्धार्थो नाम विश्रुतः । पृष्टो जीमूतराजेन, महासांवत्सरस्तदा ॥ १२ ॥ यथा निवेदयत्वार्यः कुमारजन्मनक्षत्रस्य कीदृशी ग्रहावलोकनेति ?, सिद्धार्थेनोक्तं यदाज्ञापयति देवः, समाकर्णयत तावत्-अयमानन्दः संवत्सरः ऋतुः शरत्कालः मासः कार्तिकः तिथिद्वितीयेति भद्रा वारो बृहस्पतिः नक्षत्रं कृत्तिका राशिर्वृषः योगो धृतिः सौम्यग्रहनिरीक्षितं लग्नं उच्चस्थानस्थिताः सर्वे ग्रहाः ऊर्ध्वमुखा राश्यादि | जन्मिना गुणागुणाः ॥६०८॥ Jain Education International For Private & Personel Use Only Whjainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy