SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ उपमितौ स. ७-प्र. अथ सप्तमः प्रस्तावः। घनवाहनजन्म 0000000pour ॥६०८॥ अथास्ति जगदाह्रादं !, साहादं नाम तत्पुरम् । निःशेषभुवनाश्चर्यकारणं दुःखवारणम् ॥ १॥ यत्र रूपेण वीर्येण, मिथःस्नेहेन ली-1 लया। मिथुनानि प्रकुर्वन्ति, रतिमन्मथविभ्रमम् ॥ २॥ तत्र निर्दलिताशेषशत्रुपूगो महारथः । तेजःप्रणतसामन्तो, जीमूतो नाम पार्थिवः ॥ ३ ॥ तस्यास्ति रतिसङ्काशा, रतिसन्दोहदायिका । लीला नाम महादेवी, सर्वान्तःपुरनायिका ॥ ४ ॥ अथागृहीतसङ्केते !, भवितव्यतया तया । तदाऽहं गुडिकादानात्तस्याः कुक्षौ प्रवेशितः ॥ ५ ॥ ततोऽहं नरकाकारे, मासान्नव समर्गलान् । तत्र स्थित्वा विनिष्क्रान्तो, योनियत्रनिपीडितः ॥ ६॥ अथ मां वीक्ष्य सा लीला, स्निग्धलोलविलोचना । जातो मे पुत्रकश्चारुरिति तोषमुपागता ॥७॥ जात एवं मया साधं, सोऽपि पुण्योदयस्तथा । केवलं नान्तरङ्गत्वात्स दृष्टो बत लीलया ॥ ८ ॥ अथ जीमूतराजाय, प्रियङ्का निवेदितः । दत्तं तस्यै महादानं, तेन संतुष्टचेतसा ॥ ९॥ प्रवर्तितो महानन्दः, कृतं बन्धनमोचनम् । प्रहृष्टं निखिलं राज्यं, वादितानन्दमर्दलम् ॥ १०॥ गानपानमहादानखादनप्रवणे जने । अथ निर्वर्तितप्राये, तत्र जन्ममहोत्सवे ।। ११ ॥ ज्योतिःशास्त्रे कृतोद्योगः, सिद्धार्थो नाम विश्रुतः । पृष्टो जीमूतराजेन, महासांवत्सरस्तदा ॥ १२ ॥ यथा निवेदयत्वार्यः कुमारजन्मनक्षत्रस्य कीदृशी ग्रहावलोकनेति ?, सिद्धार्थेनोक्तं यदाज्ञापयति देवः, समाकर्णयत तावत्-अयमानन्दः संवत्सरः ऋतुः शरत्कालः मासः कार्तिकः तिथिद्वितीयेति भद्रा वारो बृहस्पतिः नक्षत्रं कृत्तिका राशिर्वृषः योगो धृतिः सौम्यग्रहनिरीक्षितं लग्नं उच्चस्थानस्थिताः सर्वे ग्रहाः ऊर्ध्वमुखा राश्यादि | जन्मिना गुणागुणाः ॥६०८॥ Jain Education International For Private & Personel Use Only Whjainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy