SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ उपमितौ प. ६- प्र. ॥ ६०७ ॥ Jain Education In निर्गतं दृष्ट्वा, प्रारोहं भूमिगामिनम् । लक्षणैर्लक्षितं भद्रे !, मया तत्र निधानकम् ॥ ७०२ ॥ ततः स सागरो भद्रे !, जातो मे प्रेरकस्तदा । उत्खनेदं यथा शीघ्रं निधानं धनशेखर ! ॥ ७०३ ॥ ततः खाता मया भूमिर्दृष्टः सद्रनपूरितः । महाकुम्भः प्रभाजालैः, प्रकाशितदिगन्तरः ॥ ७०४ ॥ ततः प्रमुदितश्चित्ते, तदाऽहं वरलोचने ! | प्रवृत्तो ग्रहणे तस्य, सागरस्याज्ञया द्रुतम् || ७०५ ।। तावङ्गीपणनादेन, स्फोटयन्निव दिक्पथम् । उद्भूतस्तत्र वेताल:, कालाकारः सुदारुणः ॥ ७०६ ॥ नयनोल्लासितज्वालः, फेत्कारारावभासुरः । दीर्घदंष्ट्राकरालेन, वदनेन यमाधिकः ॥ ७०७ ॥ तेनाहमारटनुच्चैः कृत्वा वदनकोटरे । विपाटितो बलाद्भद्रे !, गाढं कटकटायता ।। ७०८ ॥ चतुर्भिः कलापकं । अत्रान्तरे जरां प्राप्ता, गुडिका मे चिरन्तनी । भूयो दत्ताऽपरा तूर्ण, भवितव्यतया तया ।। ७०९ ॥ ततस्तदीयमाहात्म्यात्संप्राप्तोऽहं यथा पुरा । तस्यां पापिष्ठवासायां, पुर्यां सप्तमपाटके ॥७१०॥ तत्रानुभूय दुःखानि, भूयो भूयो वरानने ! । भ्रान्तोऽनन्तं पुनः कालं, सर्वस्थानेषु सर्वथा ॥ ७११ ॥ न तद्दुःखं जगत्यस्ति, यन्न प्राप्तं मयाऽनघे ! । अन्यदा कृतसत्कर्मा, प्रोक्तोऽहं | भार्यया तया ॥ ७१२ ॥ यथा — अस्त्यार्यपुत्र ! विख्यातं, साह्रादं नाम पत्तनम् । बहिरङ्गं त्वया तत्र गत्वा स्थेयं यथा पुरा ।। ७१३ ॥ | मयोक्तं - यदाज्ञापयति देवी, ततः कृतस्तया मम पुण्योदयः सहचरः, वितीर्णा गुडिका, विहितं मया प्रस्थानमिति ॥ यदिदमसुलभं भो लब्धमेभिर्मनुष्यैर्बहुविधभवचारात्यन्तरीणैर्नरत्वम् । तदपि नयनलोलामैथुनेच्छापरीता, लघु धनलवलुब्धा नाशयन्त्येव मूढाः ॥ ७१४ ॥ ततश्च — विगलितास्त इमे नरभावतः, प्रबलकर्ममहाभरपूरिताः । सततदुःखमटन्ति पुनः पुनः, सकलकालमनन्तभवाटवीम् ।। ७१५ ।। तदिदमत्र निवेदितमञ्जसा, जिनवचो ननु भव्यजना ! मया । इदमवेत्य निराकुरुत द्रुतं, नयनसागरमैथुनलोलताम् ॥ ७१६ ॥ इत्युपमितिभवप्रपञ्चायां कथायां लोभमैथुनचक्षुरिन्द्रियविपाकवर्णनः षष्ठः प्रस्तावः समाप्तः ॥ For Private & Personal Use Only धनशेखरान्त्यावस्था ॥ ६०७ ॥ w.jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy