________________
उपमितौ ष. ६-प्र.
॥६०६॥
NAAMKARACHAR
धारितं भवता?, हरिराजेनोक्तं-अलं ममानेन विमध्यमराज्येन, भदन्त! दाप्यतां मह्यमपीदमात्मीयमुत्तमराज्यं, सूरिराह-महाराज! सुन्दरं खलु, केवलं-यथैतैः साधुभिर्लब्धमिदं राज्यं नरोत्तम !। तथैव लभ्यते नूनं, नापरं लाभकारणम् ॥ ६८४ ।। एतेऽप्यस्मिन् मयाऽऽख्याते, स्वराज्येऽतिमनोहरे । अत्यन्तसस्पृहा जातास्तल्लाभार्थ यथा भवान् ॥ ६८५ ॥ ततो मयोदिता भूप!, पूर्वमेते सुसाधवः । यथा भागवतीं दीक्षा, विना नैतदवाप्यते ।। ६८६ ॥ ततोऽमीभिः प्रपन्ना सा, दीक्षा कल्मषनाशिनी । प्राप्तं च तन्महाराज्यं, सुखसम्भारकारणम् ।। ६८७ ॥ अतस्तवापि यद्यस्ति, तत्र वाञ्छा नरेश्वर! । राज्ये तद्गृह्यतामेषा, दीक्षा भागवती त्वया ।। ६८८ ।। हरिराजेनोक्तं-एतावन्मात्रतो नाथ!, सुखसन्दोहदायकम् । यद्यप्येते महाराज्यं, तत्ततः किं विलम्ब्यते! ॥ ६८९ ॥ तद्दीयतां प्रसादेन, मह्यमेषा लघु त्वया । नाथ! भागवती दीक्षा, मा विलम्बो विधीयताम् ॥ ६९० ॥ ततः सूरिस्तदाकर्ण्य, हर्षविस्फारितेक्षणः । हरिं| प्रत्याह चारूक्तं, चारु चारु नरेश्वर! ६९१ ॥ तथाहि-इदं विज्ञाय सद्राज्यं, दीक्षालभ्यं सुखप्रदम् । कस्तां सकर्णो नादाय, स्तोकेन बहु हारयेत् ।। ६९२ ।। योग्यस्त्वमसि दीक्षाया, भागवत्या न संशयः । अपात्रे न वयं कुर्मो, यत्रं तद् गृह्यतामियम् ॥ ६९३ ॥ ततस्तथेति भावेन, प्रतिपद्य गुरोर्वचः । सविवेकैः समालोच्य, समं मत्रिमहत्तमैः ॥ ६९४ ॥ निजराज्ये च संस्थाप्य, पुत्रं शार्दूलनाम
कम् । दिनान्यष्ट जिनेन्द्राणां, प्रविधाय महोत्सवम् ॥ ६९५ ।। पूरयित्वाऽर्थिसङ्घातं, मानयित्वा गुरूनलम् । विधाय नगरानन्दं, कृत्वा | सर्व यथोचितम् ॥ ६९६ ॥ समं मयूरमजर्या, प्रधानैश्च नरेश्वरैः । तस्योत्तमगुरोः पार्श्वे, निष्क्रान्तो विधिपूर्वकम् ॥ ६९७ ॥ ततः |संप्राप्य तद्राज्यं, सततानन्दसुन्दरम् । मोदमानो महाभागो विजहार महीतले ।। ६९८ ॥ इतश्च-भद्रेऽगृहीतसङ्केते!, मैथुनेन समेयुषा । तेन सागरमित्रेण, नाटितोऽहमनेकधा ।। ६९९ ॥ नानारूपेषु देशेषु, ततोऽहं धनलोलुपः । क्लेशराशिनिमग्नात्मा, पर्यटामि पुनः पुनः ।। ७०० ।। अथान्यदा महारण्ये, पतितोऽहं सुभीषणे । उपविष्टः श्रमोपेतो, बिल्वपादपसन्निधौ ।। ७०१ ।। ततश्च तच्छाखा
धनशेखरान्त्यावस्था
For Private
Jain Education inte
(adjainelibrary.org
Personal Use Only