SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ सिद्धान्तोके प्रत्ययः उपमितीतदीर्घसुखकारणम् । यतः प्रविश्य तेनेदं, पालितं किंचिदादरात् ।। ६५३ ।। निःशेषसुखसम्भारकारणं राज्यमुच्चकैः । विशिष्टपालनाष. ६-प्र. जातं, तदुत्तमवरिष्ठयोः ॥ ६५४ ॥ किं च?–एतद्वार्षिकराज्यानां, षटुं कलयता मया । सर्वमेव हि विज्ञातं, यतः प्रोक्तं मनीषिभिः ॥ ६५५ ॥ येन संवत्सरो दृष्टः, सकृत्कामश्च सेवितः। तेन सर्वमिदं दृष्टं, पुनरावर्तकं जगत् ॥ ६५६ ॥ तत्सिद्धान्तप्रसादेन, विज्ञाय सुखदुःखयोः । हेतुं जातः प्रबुद्धोऽहं, विनष्टैवाप्रबुद्धता ।। ६५७ ॥ एवं च परितुष्टात्मा, स प्रबुद्धो नराधिपः । तद्राज्यषटुं निश्चित्य, ज्ञानाज्जातो निरातुरः ।। ६५८ ॥ इदं प्रसङ्गतः सर्व, तुभ्यं हरिनरेश्वर ! । निवेदितं मया योऽर्थः, प्रस्तुतस्तं निबोध मे ॥ ६५९ ॥ यथा दोषाय संजाता, महामोहादिशत्रवः । सा च दृष्टिविशेषेण, निकृष्टाधमयोस्तथा ॥ ६६० ॥ तथाऽन्येऽप्यन्तरङ्गा भो, लोका ! दोषाय देहिनाम् । दुष्टा विज्ञानशून्यानां, जायन्ते नात्र संशयः॥६६१।। युग्मम् । ततो यद्भवता पृष्टमाकर्ण्य धनशेखरम् । भ्रमन्तमन्तरङ्गाभ्यां, मित्राभ्यां परिपीडितम् ॥ ६६२ ॥ तथाऽन्यस्यापि दोषेण, किं दोषी जायते नरः । येनासौ मित्रदोषेण, पीड्यते धनशेखरः ॥६६३॥ तदेवं भो महाराज!, युज्यते धनशेखरे । तादृक्षमित्रदोषेण, तादृग्भूतं विचेष्टितम् ॥६६४॥ त्रिभिर्विशेषकम् । हरिनरेन्द्रेणोक्तं-एवमेतन्महाभाग!, नष्टो मे संशयोऽधुना। किं त्वन्योऽस्ति ममाद्यापि, सन्देहः सोऽपनीयताम् ।।६६५॥ ये कर्मपरिणामस्य, षडमी परिकीर्तिताः । पुत्रास्तेषु गतेष्वेव, परतः किमजायत? ॥ ६६६ ॥ किं षडेव हि जातानि, तानि राज्यानि नापरम् । किं वा भवन्ति SIताशि ?, राज्यान्यत्र पुनः पुनः ।। ६६७ ।। सूरिराह महाराज!, य एते भवनोदरे । विद्यन्ते देहिनः केचिन्नानाकाराश्चराचराः M६६८ ॥ ते कर्मपरिणामस्य, सर्वेऽपि परमार्थतः। विज्ञेयाः पडिधाकाराः, पुत्रा नास्त्यत्र संशयः ।। ६६९॥ युग्मम् । ततस्तेषु गतेष्वेवं, तद्राज्यमपरे सुताः । तादृशा एव भुजन्ति, दत्तं तेन महीभुजा ।। ६७० ॥ तेषामपि भवत्येव, तत्सुखासुखकारणम् । निकृष्टाद्यभिधानं या॥६०४॥ Jain Education Intel For Private & Personel Use Only .jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy