SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ उपमिती ष.६-प्र. *NAS वरिष्ठस्य द ३४ अति शयाः ॥६०३॥ आजानत्सेधिभिः पुष्पैः, पञ्चवर्णैः सुगन्धिभिः ।। ६३५॥ पक्षिणोऽपि जगन्नाथं, तं कुर्वन्ति प्रदक्षिणम् । वाति तस्य सदाकालमनुकूलः समीरणः ॥ ६३६ ॥ नमन्ति पादपास्तस्य, सम्मुखं भक्तिनिर्भराः । कोटिर्न याति देवानां, पादमूलात्कदाचन ॥ ६३७ ॥ इत्येतेऽतिशयास्तस्य, देवभक्तिविनिर्मिताः । प्रादुर्भूता निजं राज्यं, भुजतो वरभूपतेः ॥ ६३८ ॥ एवं सकलकल्याणसन्दोहोद्दामलासिनी । भूतिर्वरिष्ठराजस्य, देव! वाग्गोचरातिगा ।। ६३९ ।। इत्थं त्रिभुवनानन्दकारकः स नरेश्वरः । नगर्या निर्वृतौ लोकान् , प्रापयेन्मार्गदेशकः ।। ६४० ॥ ततस्तत्तादृशं राज्यं, कुर्वाणस्तेन वर्त्मना । असावपि गतो देव!, निर्वृतौ चारु भूमिपः ॥ ६४१ ॥ यश्चोत्तमस्य निर्दिष्टो, वृत्तान्तोऽरिवधादिकः । स एवास्यापि विज्ञेयो, वरिष्ठस्य न संशयः ॥ ६४२ ॥ अन्यच्च-विहिता लोचनस्यापि, दृष्टिः परमयोगिनी । तेनाकिंचित्करी देव!, वरिष्ठेन महीभुजा ॥ ६४३ ॥ निजबन्धुवियुक्ता सा, सर्वशक्तिविवर्जिता । ततो दृष्टिविलक्षेव, सर्वथा प्रलयं गता ॥ ६४४ ॥ तदेवं कृतकृत्यत्वान्निवृतौ स नरेश्वरः । आस्ते शान्तो निराबाधः, सततानन्दपूरितः ॥ ६४५ ॥ एवं च स्थिते-यद्भवद्भिस्तदादिष्टं, राज्यपटुनिरीक्षणम् । तदेवं देव! कृत्वाऽहमागतस्तव सन्निधौ ।। ६४६ ॥ ततश्चेदं वितर्कस्य, भाषितं स महीपतिः । अप्रबुद्धः समाकर्ण्य, चेतसा पर्यचिन्तयत् ।। ६४७ ॥ अये!—यथैव दिष्टं पूर्व मे, सिद्धान्तेन महात्मना । तथैव सकलं जातं, नान्यथा तस्य भाषितम् ॥ ६४८॥ तथाहि-इदं तेन सिद्धान्तेन भाषितं पूर्वमासीत्, तद्यथा-किलैकमपि तद्राज्यं, कारणं सुखदुःखयोः । भवेत्पालनमाश्रित्य, नृणां पात्रविशेषतः ॥ ६४९ ॥ तच्चेदं मे वितर्केण, तथैवात्र निवेदितम् । संभवेदन्यथाभावः, कुतः सिद्धान्तभाषिते ? ॥ ६५० ॥ तथाहि-निकृष्टाधमयोर्जातं, तदुःखस्यैव कारणम् । दुष्पालितं कृतं ताभ्यां, तद्राज्यं सर्वथा यतः ॥ ६५१ ॥ विमध्यमस्य संपन्नं, तत्स्वल्पसुखकारणम् । यतः –बहिर्भूतेन तेनेदं, विहितं मन्दपालितम् ॥ ६५२ ॥ मध्यमस्य पुनर्जातं सिद्धान्तोते प्रत्ययः ॥६०३ ।। - - Jain Education Inter For Private & Personel Use Only ainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy