SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ उपमिती ष.६-प्र. *NAS वरिष्ठस्य द ३४ अति शयाः ॥६०३॥ आजानत्सेधिभिः पुष्पैः, पञ्चवर्णैः सुगन्धिभिः ।। ६३५॥ पक्षिणोऽपि जगन्नाथं, तं कुर्वन्ति प्रदक्षिणम् । वाति तस्य सदाकालमनुकूलः समीरणः ॥ ६३६ ॥ नमन्ति पादपास्तस्य, सम्मुखं भक्तिनिर्भराः । कोटिर्न याति देवानां, पादमूलात्कदाचन ॥ ६३७ ॥ इत्येतेऽतिशयास्तस्य, देवभक्तिविनिर्मिताः । प्रादुर्भूता निजं राज्यं, भुजतो वरभूपतेः ॥ ६३८ ॥ एवं सकलकल्याणसन्दोहोद्दामलासिनी । भूतिर्वरिष्ठराजस्य, देव! वाग्गोचरातिगा ।। ६३९ ।। इत्थं त्रिभुवनानन्दकारकः स नरेश्वरः । नगर्या निर्वृतौ लोकान् , प्रापयेन्मार्गदेशकः ।। ६४० ॥ ततस्तत्तादृशं राज्यं, कुर्वाणस्तेन वर्त्मना । असावपि गतो देव!, निर्वृतौ चारु भूमिपः ॥ ६४१ ॥ यश्चोत्तमस्य निर्दिष्टो, वृत्तान्तोऽरिवधादिकः । स एवास्यापि विज्ञेयो, वरिष्ठस्य न संशयः ॥ ६४२ ॥ अन्यच्च-विहिता लोचनस्यापि, दृष्टिः परमयोगिनी । तेनाकिंचित्करी देव!, वरिष्ठेन महीभुजा ॥ ६४३ ॥ निजबन्धुवियुक्ता सा, सर्वशक्तिविवर्जिता । ततो दृष्टिविलक्षेव, सर्वथा प्रलयं गता ॥ ६४४ ॥ तदेवं कृतकृत्यत्वान्निवृतौ स नरेश्वरः । आस्ते शान्तो निराबाधः, सततानन्दपूरितः ॥ ६४५ ॥ एवं च स्थिते-यद्भवद्भिस्तदादिष्टं, राज्यपटुनिरीक्षणम् । तदेवं देव! कृत्वाऽहमागतस्तव सन्निधौ ।। ६४६ ॥ ततश्चेदं वितर्कस्य, भाषितं स महीपतिः । अप्रबुद्धः समाकर्ण्य, चेतसा पर्यचिन्तयत् ।। ६४७ ॥ अये!—यथैव दिष्टं पूर्व मे, सिद्धान्तेन महात्मना । तथैव सकलं जातं, नान्यथा तस्य भाषितम् ॥ ६४८॥ तथाहि-इदं तेन सिद्धान्तेन भाषितं पूर्वमासीत्, तद्यथा-किलैकमपि तद्राज्यं, कारणं सुखदुःखयोः । भवेत्पालनमाश्रित्य, नृणां पात्रविशेषतः ॥ ६४९ ॥ तच्चेदं मे वितर्केण, तथैवात्र निवेदितम् । संभवेदन्यथाभावः, कुतः सिद्धान्तभाषिते ? ॥ ६५० ॥ तथाहि-निकृष्टाधमयोर्जातं, तदुःखस्यैव कारणम् । दुष्पालितं कृतं ताभ्यां, तद्राज्यं सर्वथा यतः ॥ ६५१ ॥ विमध्यमस्य संपन्नं, तत्स्वल्पसुखकारणम् । यतः –बहिर्भूतेन तेनेदं, विहितं मन्दपालितम् ॥ ६५२ ॥ मध्यमस्य पुनर्जातं सिद्धान्तोते प्रत्ययः ॥६०३ ।। - - Jain Education Inter For Private & Personel Use Only ainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy