SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ उपमितौ प. ६- प्र. ॥ ६०२ ॥ Jain Education Intern त्ररत्नैव निर्मितः । एते त्रयः प्रभोर्भान्ति, प्राकारास्तस्य निर्मलाः || ६१६ ॥ भ्रमद्भमरविस्तारतारझङ्कारबन्धुरः । अशोकपादपो भाति, | मनोनन्दनपल्लवः ॥ ६१७ ॥ रणद्विरेफसंकीर्णा, सुरासुरकरेरिता । पुष्पवृष्टिः पतत्युच्चैर्गन्धामोदितदिक्पथा ।। ६१८ ॥ तथा - प्राकारत्रयमध्यस्थे, कुर्वाणे मार्गदेशनाम् । वरिष्ठे सततानन्दी, निर्घोषः श्रूयते किल ॥ ६१९ ॥ मृणालनालसत्तन्तुसन्तानाकारधारिताम् । आचरन्ति विराजन्ते चामराणि जगत्प्रभोः ।। ६२० ॥ विचित्ररत्नविच्छित्तिनिर्मितानि महान्ति च । सिंहासनानि शोभन्ते, चत्वारि चतुराकृतेः ॥ ६२१ ॥ प्रकाशितनभोभागं, भास्कराकारधारकम् । राजते तत्तनूल्लासि, प्रभामण्डलमुत्तमम् || ६२२ ॥ उल्लासितजनाह्रादः, सुरकिन्नरताडितः । ध्वनते दुन्दुभिर्दिव्यो, जगतां कर्णपेशलः || ६२३ ॥ आतपत्रत्रयं भाति, भुवनत्रयनायकः । अयं वरिष्ठ इत्येवं, ख्यापनार्थमिव प्रभोः ।। ६२४ ॥ इत्येवमादिभिर्देव !, देवदानवनिर्मितैः । प्रातिहार्यैर्महाभागः स वरिष्ठो विराजते ॥ ६२५ ॥ अन्यच्च — सुगन्धिर्विमलो देहः, प्रस्वेदामयवर्जितः । गोक्षीरहारसङ्काशं, रक्तं मांसं च भूपतेः ॥ ६२६ ॥ निराहारचेष्टा च न दृश्या मांसचक्षुषाम् । निश्वासः सुरभिस्तस्य, जन्माद्येयं गुणावली || ६२७ ॥ कोटीकोयोऽपि मान्त्युचैः, क्षेत्रे योजनमात्र के । एकापि भारती भाति, सर्वेषां निजभाषया ।। ६२८ || पूर्वोत्पन्नाः प्रशाम्यन्ति, वैरमारीरुगीतयः । प्रादुर्भावं न यान्त्येता, भाविन्यस्तस्य तेजसा ॥ ६२९ ॥ योजनानां शते नास्ति, दुर्भिक्षं तत्प्रभावतः । अवृष्टिरतिवृष्टिश्च न स्तः स्तेनादितश्च भीः || २३० ॥ इत्येते सद्गुणास्तस्य, महामोहादिवैरिणाम् । समुद्दलनतो देव !, संजाता वरभूपतेः ॥ ६३१ ॥ चक्रं छत्रं ध्वजो रनैश्चर्चितश्चारुविक्रमः । भाति राजीवराजिश्च कामतः क्रमवर्तिनी ॥ ६३२ ॥ अधोमुखाश्च तिष्ठन्ति, कण्टकास्तत्प्रभावतः । अवस्थितं तदा तस्य, नखरोमादिकं प्रभोः ||६३३॥ शब्दरूपरसस्पर्शगन्धा हृदयहारिणः । ऋतवश्च भवन्त्युचैः प्रभावेण जगत्प्रभोः ॥ ६३४ || भूमिर्गन्धोदकासिक्का, पुष्पप्रकरराजिता । For Private & Personal Use Only वरिष्ठस्य ३४ अतिशयाः ॥ ६०२ ॥ www.jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy