________________
न
उपमिती प. ६-प्र.
वरिष्ठचरितम्
॥६०१॥
यन्ति यतो गणम् । ततस्ते विश्रुता लोके, नाम्नेति गणधारिणः ॥ ६०१ ॥ ततस्तेन वरिष्ठेन, तैरात्मगणधारिभिः । उपकारीति विज्ञाय, स सिद्धान्तो निरूपितः ।। ६०२ ॥ अथोपलभ्य सिद्धान्त, राजादेशेन सादरम् । समारयन्ति ते तस्य, शरीरमतिसुन्दरम् ॥ ६०३ ॥ ततश्चाङ्गान्युपाङ्गानि, संस्कृत्य कृतनिश्चयाः । संस्थापयन्ति ते तस्य, सज्जानि गणधारिणः ।। ६०४ ॥ एवं च स्थिते-सोऽजरामररूपोऽपि, सिद्धान्तः परमार्थतः । लोके प्रसिद्धिमायातो, वरिष्ठेनैष कारितः ॥ ६०५ ॥ नोपदेष्टा वरिष्ठस्य, तेनासौ राज्यसाधने । निजज्ञानबलेनैव, तद्राज्यं तेन साधितम् ।। ६०६ ।। निरपेक्षो महाभागः, स वरिष्ठो नरेश्वरः । तदा परोपदेशानां, संजातो निजवीर्यतः ॥ ६०७ ॥ किं च–स कर्मपरिणामेन, यादृशो जनितो नृपः । तत्ते निवेदयिष्येऽहं, विज्ञातं लोकवार्तया ।। ६०८॥ स हि ! "भगवान् वरिष्ठो नरेन्द्रः सकलकालं परार्थव्यसनी उपसर्जनीकृतस्वार्थ उचितक्रियावान् देवगुरुबहुमानी दैन्यहीनहृदयः सफलारम्भी "कृतज्ञाता परमेश्वरो दृढानुशयविकलोऽत्यन्धधीरगम्भीराशयः, अवज्ञाऽस्य परीषहेषु न भयमुपसर्गेषु न चिन्तापीन्द्रियवर्गे न गण| "नापि महामोहादिशब्रुवर्गे सात्मीभावश्चारित्रधर्मराजादिके निजबले अभिरति वनोपकारकरणे” अन्यच्च-प्रविष्टस्य महाराज्ये, तत्र तस्य महीपतेः । संजाते च जनानन्दे, हतेषु चरटादिषु ॥ ६०९॥ राज्यं परिणतं दिव्यं, भुजतः सततोत्सवम् । बहिरङ्गा समुद्भूता, भूतिर्या तां निबोध मे ॥ ६१० ॥ लसकिरीटकेयूरहारकुण्डलभूषिताः । द्योतिताशेषदिक्चक्राः, शक्रास्तस्य पदातयः ॥ ६११ ॥ इदं त्रिभुवनं देव!, सदेवमनुजासुरम् । तदा वरिष्ठराजस्य, सर्व किङ्करतां गतम् ।। ६१२ ॥ याऽत्र त्रिभुवने देव!, विभूतिः सा महात्मनः । तस्य सर्वापि संपन्ना, किं तु तस्यां स निःस्पृहः ॥ ६१३ ॥ नगर्या निवृतो येन, मार्गेण स नरेश्वरः । प्रस्थितस्तं समस्तेभ्यो, जन्तुभ्यो देशयत्यलम् ॥ ६१४ ॥ तं च देशयतस्तस्य, तैर्भक्तिभरनिर्भरैः । सुरासुरनरैर्देव!, यत्कृतं तन्निवेदये ।। ६१५ ॥ राजतस्तपनीयायश्चि
इ. म. ५१
Jan Education in
For Private Personal use only