SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ उपमितौ ष. ६-अ. ॥५९९॥ ज्यस्य, फलं भोक्ता भविष्यसि ॥ ५६५ ॥ निर्बाधो नष्टनिःशेषशत्रुसङ्घातनिर्भयः । स्थास्यसि त्वं महाभाग!, सततानन्दपूरितः॥५६॥ | ये तेऽन्तरङ्गास्ते भूपास्तेऽपि भूतिसमन्विताः । मोदिष्यन्ते त्वया सार्ध, सर्वे तल्लयतां गताः ॥ ५६७ ॥ अन्यच्च-कृत्वाऽने रिपुहन्तारं, भटं वैराग्यनामकम् । विधायात्यन्तनिपुणमभ्यासं मार्गदेशकम् ॥ ५६८ ।। राज्यप्रवेशादारभ्य, गच्छतस्ते पदे पदे । वर्धमाना महा-1 भाग!, भविष्यन्ति विभूतयः ॥५६९॥ किं बहुना?-न मोक्तव्यस्त्वया मार्गो, निहन्तव्याश्च शत्रवः । नानुषङ्गो विधातव्यो, बहिरङ्गविभूतिषु ॥ ४७० ॥ पाल्याश्चारित्रधर्माद्याः, स्मर्तव्यं मामकं वचः। एवं ते कुर्वतो वत्स!, सर्व चारु भविष्यति ॥ ५७१ ॥ तद्गच्छ वत्स ! सिद्धिस्ते, कुरु राज्यं सुनिर्मलम् । त्वया राज्यफले प्राप्ते, सफलो मे परिश्रमः ॥ ५७२ ॥ उत्तमेनोक्तं यदाज्ञापयति नाथः, ततो यथोपदिष्टं तत्सिद्धान्तेन महात्मना । तथैव विहितं सर्वमुत्तमेन सुमेधसा ॥ ५७३ ॥ ततः प्रविष्टोऽसौ तत्र, राज्ये तेनैव वर्त्मना । विहिताशेषकर्तव्यो, देवोत्तममहीपतिः ॥ ५७४ ॥ अथ सा योगिनी दृष्टिमहामोहादिशत्रुभिः । तस्यापि योजिता देव!, वशी-15 करणकामुकैः ॥ ५७५ ।। यावता न गतस्तस्याः, स दृष्टेर्वशवर्तिताम् । किं तु निर्जित्य तां तेन, तेऽपि सर्वेऽपि निर्जिताः ॥ ५७६ ॥ ततो निर्दलिताशेषशत्रुवर्गो विकण्टकम् । उद्भूतभूतिकं स्फीतं, राज्यमासाद्य सुन्दरम् ॥ ५७७ ॥ पालयन्निजसैन्यानि, सर्वाश्चाहादयन् प्रजाः । अमुञ्चनिर्वृतेर्मार्ग, स लोके श्लाध्यतां गतः ॥ ५७८ ।। कथं ?-धन्योऽयं कृतकृत्योऽयं, महात्मा नरसत्तमः । येनेदृशं महाराज्यं, पालितं पुण्यकर्मणा ॥ ५७९ ॥ ततश्च-देवदानवमानुष्यशकचक्रधरैः स्तुतः । स गच्छन्निर्वृतेर्मा , संप्राप्तः परपूजनम् ।।५८०॥ तदेवं भुवनख्यातं, सुखसन्दोहपूरितम् । तद्राज्यमन्तरङ्गं भोः, परिपाल्य मनोहरम् ॥ ५८१ ॥ तेनौदासीन्यमार्गेण, गच्छन्निःशेषचेष्टि- 8 तम् । सिद्धान्तोक्तं प्रकुर्वाणः, पूर्वोक्तं दृढसंस्मृतिः।। ५८२ ॥ स तस्यामुत्तमो राजा, निर्वृतौ सततोत्सवः । संप्राप्तः क्रमशो देव!,18 ५९९॥ Jain Education Intel For Private & Personel Use Only A jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy