SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ उपमिती ॥५९८॥ ASSASSAUSESXSANSAR | "कर्शयति, अत एव महामोहादयस्तं स्वोपकारार्थ कलुषयन्ति चारित्रधर्मादयस्त्वात्मोपकारार्थमेव तं प्रसादयन्ति, भवता तु तस्याध्यव|"सायमहाइदस्य प्रसादनार्थ ताश्चतस्रोऽपि महादेव्यो नियोज्याः, यतो निपुणास्तास्तस्य नितराममलताकरणे, ततः प्रसन्नीभूते तत्रादि| "महाहदे पुष्टीभूतेषु चारित्रधर्मादिषु स्वाङ्गिकभूपेषु कर्शितेषु महामोहादितस्करेषु पुनरप्रतो गन्तव्यं, ततो भविष्यति तस्मादेव महाइ-18|| "दात् प्रवृत्ता धारणा नाम महानदी, सा च स्थिरसुखयानासनोपविष्टेनोच्छासरहितमतिवेगेन गच्छता परित्यज्य निःशेषमिन्द्रियव्याक्षेप धारणाम"भवता प्राप्तव्या, तस्यां च जनयिष्यन्ति ते महामोहादिशत्रवो विविधविकल्पकल्पकल्लोलकान , ते भवताऽत्यन्तावहितेन भजनीयाः, हिमा "ततो द्रक्ष्यसि त्वं धर्मध्याननामानमतिप्रगुणं दण्डोलकं, तेन च गन्तव्यं, स च गत्वा पतिष्यति सबीजयोगाभिधाने महति मार्गे, तेन 8 “च गच्छतस्ते प्रतिक्षणं प्रलयीभविष्यन्ति सर्वेऽपि महामोहादिशत्रवः समुञ्चलिष्यन्ति तेषां सम्बन्धीनि समस्तस्थानानि प्रबलीभवि"ध्यन्ति चारित्रधर्मादयः धवलतां धारयिष्यति समस्तापि राज्यभूमिः न भविष्यति च रजस्तमसो मापि, ततो लप्स्यसे त्वं शुक्लध्या-12 "नाभिधानं दण्डोलकं, तेन च गच्छतो भविष्यति ते विमलकेवलालोकः, ततः स दण्डोलको गत्वा मिलिष्यति निर्बीजयोगाख्ये बृहति "मार्गे, तत्र च स्थितेन त्वया विषमरिपुसमीकरणाय विधातव्यः केवलिसमुद्घाताख्यः प्रयत्नो, निहन्तव्याश्च योगाख्यास्त्रयो दुष्टवेतालाः, | "ततः परं भविष्यति शैलेशी नाम वर्तनी, तया गन्तव्यं, सैव तस्यां निर्वृतिनगर्या भवन्तं प्रापयिष्यति सा यतोऽनारतस्तिष्ठती"ति, एते च सर्वे तमौदासीन्यनामकं महाराजमार्गममुञ्चत एव भवतः संपत्स्यन्ते व्यतिकराः, अन्यच्च-तत्र गच्छता भवता ग्रहीतव्या समता नाम योगनलिका, तस्यां च पातनीया निजा दृष्टिः, ततस्तस्यां समतायां पतितदृष्टेस्तव भविष्यति यथावस्थितपदार्थदर्शनं, ततः ॥५९८॥ स्वयमेव विज्ञाय प्रतिक्षणं यथोचितं करिष्यसि, किंबहुनोपदिष्टेनेति, तस्यां च निर्वृतौ वत्स!, प्राप्तस्त्वं सततोत्सवः । तस्यान्तरङ्गरा Jain Education Internal For Private & Personel Use Only www.jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy