SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ उपमिती ॥५९८॥ ASSASSAUSESXSANSAR | "कर्शयति, अत एव महामोहादयस्तं स्वोपकारार्थ कलुषयन्ति चारित्रधर्मादयस्त्वात्मोपकारार्थमेव तं प्रसादयन्ति, भवता तु तस्याध्यव|"सायमहाइदस्य प्रसादनार्थ ताश्चतस्रोऽपि महादेव्यो नियोज्याः, यतो निपुणास्तास्तस्य नितराममलताकरणे, ततः प्रसन्नीभूते तत्रादि| "महाहदे पुष्टीभूतेषु चारित्रधर्मादिषु स्वाङ्गिकभूपेषु कर्शितेषु महामोहादितस्करेषु पुनरप्रतो गन्तव्यं, ततो भविष्यति तस्मादेव महाइ-18|| "दात् प्रवृत्ता धारणा नाम महानदी, सा च स्थिरसुखयानासनोपविष्टेनोच्छासरहितमतिवेगेन गच्छता परित्यज्य निःशेषमिन्द्रियव्याक्षेप धारणाम"भवता प्राप्तव्या, तस्यां च जनयिष्यन्ति ते महामोहादिशत्रवो विविधविकल्पकल्पकल्लोलकान , ते भवताऽत्यन्तावहितेन भजनीयाः, हिमा "ततो द्रक्ष्यसि त्वं धर्मध्याननामानमतिप्रगुणं दण्डोलकं, तेन च गन्तव्यं, स च गत्वा पतिष्यति सबीजयोगाभिधाने महति मार्गे, तेन 8 “च गच्छतस्ते प्रतिक्षणं प्रलयीभविष्यन्ति सर्वेऽपि महामोहादिशत्रवः समुञ्चलिष्यन्ति तेषां सम्बन्धीनि समस्तस्थानानि प्रबलीभवि"ध्यन्ति चारित्रधर्मादयः धवलतां धारयिष्यति समस्तापि राज्यभूमिः न भविष्यति च रजस्तमसो मापि, ततो लप्स्यसे त्वं शुक्लध्या-12 "नाभिधानं दण्डोलकं, तेन च गच्छतो भविष्यति ते विमलकेवलालोकः, ततः स दण्डोलको गत्वा मिलिष्यति निर्बीजयोगाख्ये बृहति "मार्गे, तत्र च स्थितेन त्वया विषमरिपुसमीकरणाय विधातव्यः केवलिसमुद्घाताख्यः प्रयत्नो, निहन्तव्याश्च योगाख्यास्त्रयो दुष्टवेतालाः, | "ततः परं भविष्यति शैलेशी नाम वर्तनी, तया गन्तव्यं, सैव तस्यां निर्वृतिनगर्या भवन्तं प्रापयिष्यति सा यतोऽनारतस्तिष्ठती"ति, एते च सर्वे तमौदासीन्यनामकं महाराजमार्गममुञ्चत एव भवतः संपत्स्यन्ते व्यतिकराः, अन्यच्च-तत्र गच्छता भवता ग्रहीतव्या समता नाम योगनलिका, तस्यां च पातनीया निजा दृष्टिः, ततस्तस्यां समतायां पतितदृष्टेस्तव भविष्यति यथावस्थितपदार्थदर्शनं, ततः ॥५९८॥ स्वयमेव विज्ञाय प्रतिक्षणं यथोचितं करिष्यसि, किंबहुनोपदिष्टेनेति, तस्यां च निर्वृतौ वत्स!, प्राप्तस्त्वं सततोत्सवः । तस्यान्तरङ्गरा Jain Education Internal For Private & Personel Use Only www.jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy