SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ उपमितौ प. ६-प्र. उत्तमचरितं. ॥५९६॥ निहनिष्यामि, प्रचण्डचरटानहम् ? ॥ ५५७ ॥ कया वशीभवेन्नीत्या, तत्सुराज्यं ममाखिलम् ? । कुत्र स्थाने 'मया नाथ!, नियोज्यं निजपौरुषम् ? ॥ ५५८ ॥ सर्वोपायविधेर्वेत्ता, त्वं महाभाग! वर्तसे । यथा निष्कण्टकं राज्यं, स्यान्मे तद्वक्तुमर्हसि ॥ ५५९ ॥ तदेवमुत्त-| मेनोक्ते, सिद्धान्तः समभाषत । वत्स! योग्योऽसि राज्यस्य, तस्य नास्त्यत्र संशयः ॥ ५६० ॥ तथाहि-मोक्षकाडैकतानस्त्वं, तदर्थ धर्मसाधकः । संसाराद्विरतोऽत्यन्तमर्थकामपराङ्मुखः ॥ ५६१ ।। मोक्षे प्रवर्तमानस्य, या कीर्तिर्यच्च ते सुखम् । प्रसङ्गजनितं तत्ते, वत्स ! नो बन्धकारणम् ॥ ५६२ ॥ भवप्रपञ्चः सर्वोऽपि, विदितो भवगः स्फुटम् । तच्च राज्यं त्वया ज्ञातं, यत्पित्रा ते निवेदितम् ॥ ५६३ ॥ यश्च प्रवेशनोपायस्तत्र राज्ये नरोत्तम! । तं ते निवेदयिष्यामि, निःशेषमवधारय ॥५६४॥ "तत्र भोः प्रविशताऽन्तरङ्गराज्ये नरपतिना। "प्रथममेव प्रष्टव्या गुरवः सम्यगनुष्ठेयस्तदुपदेशः विधेयाऽऽहितानिनेवाग्नेस्तदुपचर्या कर्तव्यं धर्मशास्त्रपारगमनं विमर्शनीयस्तात्पर्येण "तद्भावार्थः जनयितव्यस्तेन चेतसोऽवष्टम्भः अनुशीलनीया धर्मशास्त्रे यथोक्ताः क्रियाः पर्युपासनीयाः सन्तः परिवर्जनीयाः सततम-13 "सन्तः रक्षणीयाः स्वरूपोपमया सर्वजन्तवः भाषितव्यं सत्यं सर्वभूतहितमपरुषमनतिकाले परीक्ष्य वचनं न ग्राह्यमणीयोऽपि परधन“मदत्तं विधेयं सर्वासामस्मरणमसंकल्पनमप्रार्थनमनिरीक्षणमनभिभाषणं च स्त्रीणां कर्तव्यो बहिरङ्गान्तरङ्गसङ्गत्यागः धारणीयः संयमो"पकारी महायतिवेषः यापनीयं नवकोटिविशुद्धेनाहारोपधिशय्यादिनाऽऽत्मशरीरं विहर्तव्यमनियतविहारेण न दातव्यस्तन्द्रानिद्राऽऽल"स्यविषादादीनामवकाशः न मूञ्छितव्यं मृदुस्पर्शेषु न गर्धितव्यं स्वादुरसेषु न मोहितव्यं सुरभिगन्धेषु नाध्युपपत्तव्यं कमनीयरूपेषु "नाभिकाङ्कितव्यं कलध्वानेषु नोद्वेजितव्यं कर्कशशब्देभ्यः न जुगुप्सनीयानि बीभत्सरूपाणि न द्वेष्टव्यममनोज्ञरसेषु न निन्दितव्या "दुरभिगन्धाः न गर्हणीयमकान्तस्पर्शेषु प्रतिक्षणं क्षालनीयो विशुद्धभावनयाऽऽत्मा भवितव्यं सदा संतुष्टचित्तेन समाचरणीयं विचित्रं अन्तरङ्गप्रवेशः Jain Education Pa For Private & Personel Use Only w ww.jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy