________________
उपमितौ
ACCLUCCAMSANCH
उत्तम
स्तोषितस्तेन कर्मणा ।। ५३९ ॥ ततोऽसंख्यसुखापूर्णे, नगरे विबुधालये । स राजा मध्यमस्तेन, नीतो राज्येऽतिलखिते ॥ ५४० ॥ ततो| ऽहं चरितं वीक्ष्य, चतुर्णामपि भूभुजाम् । तेषां सकौतुको जातः, पञ्चमः किं करिष्यति ? ॥ ५४१ ॥ यावत्तत्र महाराज्ये, प्रामेषु नगरेषु च । घोषितं डिण्डिमेनोच्चैरुत्तमोऽत्र महीपतिः ॥ ५४२ ॥ ततस्तां घोषणां श्रुत्वा, तेऽन्तरङ्गनराधिपाः । पुनः पर्याकुलीभूताः, सुन्दरा इतरेऽपि च ॥ ५४३ ॥ ततश्चारित्रधर्माय, तेन सद्बोधमन्त्रिणा । सन्धीरणार्थ सैन्यस्य, तद्गुणाः प्रतिवेदिताः ॥ ५४४ । उक्तं हि तेन सद्बोधमन्त्रिणामा भैपुरत्र भो लोकाः!, सुन्दरोऽयं नराधिपः । अत्यन्तवत्सलोऽस्माकं, महानन्दविधायकः ।। ५४५ ।। जानात्येष निजं राज्यमिदं रत्नौघपूरितम् । अस्मांश्च लक्षयत्येष, नामतो गुणतोऽपि च ॥ ५४६ ।। यत्सैन्यं ये गुणास्तस्य, ये ग्रामनगराकराः । ये देशा येऽत्र चरटा, ये लोकाः शुद्धवृत्तयः ।। ५४७ ॥ या च राज्यस्थितिः काचिदत्र राज्येऽतिसुन्दरा । तदिदं बुध्यते देव!, सर्वमुत्तमभूपतिः ।। ५४८॥ युग्मम् । वर्धकोऽस्मद्वलस्यायं, महामोहादिसूदनः । सर्वैर्नृपगुणैर्युक्तश्चारुरेष महीपतिः ॥ ५४९॥ तदस्य यदिदं । राज्यं, तद्राज्यं परमार्थतः । अस्माकमेव संजातं, देव! नास्त्यत्र संशयः ।। ५५० ।। सद्बोधमत्रिणो वाक्यमेवमाकर्ण्य ते नृपाः । जाताश्चारित्रधर्माद्याः, प्रोत्फुल्लमुखपङ्कजाः ।। ५५१ ।। ततश्चारित्रधर्माद्यैः, कृतलोकचमत्कृति । कृतं वर्धनकं तोषादानन्दरसनिर्भरम् ॥५५२॥ गायन्ति च ते, यथा-इदमुत्तमराज्यमहो प्रबलं, दलिताखिलतस्करवृन्दबलम् । अचिरेण भविष्यति सुदृशां, प्रमदाय च साधुजनस्य भृशम् ॥ ५५३ ॥ इतश्च-महामोहादयः सर्वे, श्रुत्वा राज्यं तदौत्तमम् । प्रलीना वयमित्येवं, मुक्तप्राणा इव स्थिताः ॥ ५५४ ॥ क यामः क च नश्यामः, कथं जीवितरक्षणम् ? । इत्येवमाकुलीभूतास्ते किं किं किं न कुर्वते ? ॥ ५५५ ॥ अथ राज्यं समासाद्य, पितुस्तेन महीभुजा । उत्तमेन स सिद्धान्तः, पृष्टो राज्यस्थितिं तदा ॥ ५५६ ॥ तद्यथा-कथं नाथ! प्रवेक्ष्यामि, तत्र राज्येऽतिदुर्गमे । कथं वा
चरितं
३ ॥ इतश्च महामहरक्षणम् । इत्येवमाला १५६ ॥ तद्यथा
॥ ५९५॥
ARGONE
For Private & Personel Use Only
Mwjainelibrary.org