SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ उपमितौ ACCLUCCAMSANCH उत्तम स्तोषितस्तेन कर्मणा ।। ५३९ ॥ ततोऽसंख्यसुखापूर्णे, नगरे विबुधालये । स राजा मध्यमस्तेन, नीतो राज्येऽतिलखिते ॥ ५४० ॥ ततो| ऽहं चरितं वीक्ष्य, चतुर्णामपि भूभुजाम् । तेषां सकौतुको जातः, पञ्चमः किं करिष्यति ? ॥ ५४१ ॥ यावत्तत्र महाराज्ये, प्रामेषु नगरेषु च । घोषितं डिण्डिमेनोच्चैरुत्तमोऽत्र महीपतिः ॥ ५४२ ॥ ततस्तां घोषणां श्रुत्वा, तेऽन्तरङ्गनराधिपाः । पुनः पर्याकुलीभूताः, सुन्दरा इतरेऽपि च ॥ ५४३ ॥ ततश्चारित्रधर्माय, तेन सद्बोधमन्त्रिणा । सन्धीरणार्थ सैन्यस्य, तद्गुणाः प्रतिवेदिताः ॥ ५४४ । उक्तं हि तेन सद्बोधमन्त्रिणामा भैपुरत्र भो लोकाः!, सुन्दरोऽयं नराधिपः । अत्यन्तवत्सलोऽस्माकं, महानन्दविधायकः ।। ५४५ ।। जानात्येष निजं राज्यमिदं रत्नौघपूरितम् । अस्मांश्च लक्षयत्येष, नामतो गुणतोऽपि च ॥ ५४६ ।। यत्सैन्यं ये गुणास्तस्य, ये ग्रामनगराकराः । ये देशा येऽत्र चरटा, ये लोकाः शुद्धवृत्तयः ।। ५४७ ॥ या च राज्यस्थितिः काचिदत्र राज्येऽतिसुन्दरा । तदिदं बुध्यते देव!, सर्वमुत्तमभूपतिः ।। ५४८॥ युग्मम् । वर्धकोऽस्मद्वलस्यायं, महामोहादिसूदनः । सर्वैर्नृपगुणैर्युक्तश्चारुरेष महीपतिः ॥ ५४९॥ तदस्य यदिदं । राज्यं, तद्राज्यं परमार्थतः । अस्माकमेव संजातं, देव! नास्त्यत्र संशयः ।। ५५० ।। सद्बोधमत्रिणो वाक्यमेवमाकर्ण्य ते नृपाः । जाताश्चारित्रधर्माद्याः, प्रोत्फुल्लमुखपङ्कजाः ।। ५५१ ।। ततश्चारित्रधर्माद्यैः, कृतलोकचमत्कृति । कृतं वर्धनकं तोषादानन्दरसनिर्भरम् ॥५५२॥ गायन्ति च ते, यथा-इदमुत्तमराज्यमहो प्रबलं, दलिताखिलतस्करवृन्दबलम् । अचिरेण भविष्यति सुदृशां, प्रमदाय च साधुजनस्य भृशम् ॥ ५५३ ॥ इतश्च-महामोहादयः सर्वे, श्रुत्वा राज्यं तदौत्तमम् । प्रलीना वयमित्येवं, मुक्तप्राणा इव स्थिताः ॥ ५५४ ॥ क यामः क च नश्यामः, कथं जीवितरक्षणम् ? । इत्येवमाकुलीभूतास्ते किं किं किं न कुर्वते ? ॥ ५५५ ॥ अथ राज्यं समासाद्य, पितुस्तेन महीभुजा । उत्तमेन स सिद्धान्तः, पृष्टो राज्यस्थितिं तदा ॥ ५५६ ॥ तद्यथा-कथं नाथ! प्रवेक्ष्यामि, तत्र राज्येऽतिदुर्गमे । कथं वा चरितं ३ ॥ इतश्च महामहरक्षणम् । इत्येवमाला १५६ ॥ तद्यथा ॥ ५९५॥ ARGONE For Private & Personel Use Only Mwjainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy