SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ मध्यम चरितं उपमितौ दिरूपं यद्भावबन्धनम् । तत्रोटनं न शक्नोति, कर्तुमेष नराधिपः ।। ५२२ ॥ तदिदं मत्रिणा तावन्महामोहादिभूभुजाम् । निवेदितं मया | प. ६-प्र. IN तत्र, श्रुतं च जनवार्तया ॥ ५२३ ॥ अप्रबुद्धेनोक्तं-किं पुनरपरमाकर्णितं जनवार्तया भवता?, वितर्केणोक्तं-आकर्णयतु देवः येन ते कथितं देव!, सिद्धान्तेनाखिलं पुरा । सार्ध परिचयस्तेन, तस्याप्यस्ति महीपतेः ॥ ५२४ ॥ ततस्तदुपदेशेनानेन मध्यमभू॥५९४॥ भुजा । तदात्मीयं महाराज्यं, लेशोद्देशेन लक्षितम् ॥ ५२५ ॥ तच्च चारित्रधर्माद्यं, सैन्यमीषद्धि भावितम् । समृद्धिनिजरूपं च,18 विज्ञातप्रायमजसा ।। ५२६ ॥ महामोहादिशत्रूणां, तेषां चरटवृत्तिता । तेनावधारिता राज्ञा, सिद्धान्तवचनात्किल ॥ ५२७ ॥ ततो| ऽसौ मध्यमो राजा, वीर्येण कियतीमपि । आक्रम्य भूमिं राज्यस्य, मध्यभागे व्यवस्थितः ॥ ५२८ ॥ अथ चारित्रधर्माद्याः, स्वाङ्गभूताः पदातयः । मनागाह्लादितास्तेन, चौराश्चेषन्निपीडिताः ॥ ५२९ ॥ ततस्तद्वीर्यमुद्वीक्ष्य, महामोहादितस्कराः । सेवका इव तल्लीनाः, स्थिताः कम्पितमानसाः ॥ ५३० ॥ मनागाहादिताश्चित्ते, स्वामिवीर्य निरीक्ष्य ते । नृपाश्चारित्रधर्माद्याः, ससैन्यपुरबान्धवाः ॥ ५३१॥ यया वशीकृताः पूर्वे, राजानः साऽपि योगिनी । तस्य मध्यमराजस्य, दृष्टि त्यन्तबाधिका ॥ ५३२ ॥ ततोऽसौ मध्यमो राजा, मनाकिर्जितमण्डलः । राज्यं यापनयाऽऽत्मीयं, कालापेक्षी भुनक्ति तत् ॥ ५३३ ॥ बहिरङ्गेषु देशेषु, स जने श्लाघ्यतां गतः । धन्योऽयं पुण्यकर्मेति, लब्धमार्गो नराधिपः ॥ ५३४ ॥ किं बहुना?-ये केचिल्लब्धसन्मार्गा, जीवा जैनेन्द्रशासने । जीवादितत्त्ववेत्तारः, श्रद्धासंशुद्धमानसाः ॥ ५३५ ।। यथाशक्ति कियङ्ग्योऽपि, पापेभ्यो विरतास्तथा । समस्तभुवनाहादकारिणः' शुद्धलेश्यया ॥ ५३६ ॥ तेषां हि यदनुष्ठानं, तत्तेनापि निषेवितम् । देव! मध्यमराजेन, तद्राज्यं भुञ्जताऽखिलम् ॥ ५३७॥ त्रिभिर्विशेषकम् । ये चान्ये तादृशा लोकाः, परलोककृतोद्यमाः। गृहीतमोक्षतत्त्वार्थास्तद्रूपोऽसौ नराधिपः ॥५३८॥ ततोऽसौ यः पिता तस्य, सार्वभौमो नरेश्वरः। स कर्मपरिणामाख्य ५९४॥ Jain Education Intern For Private & Personel Use Only Paw.jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy