SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ उपमितौ प. ६-प्र. चरितं यावन्नाक्रामति प्राज्यं ॥५९३॥ च तद्राज्यं, कि राज्यं च, पालयत्यन्तधर्माया, 25 ॐॐ55 पालकः । आस्माकीनं पुनः सैन्यं, बाधते नात्र संशयः॥ ५०३ ॥ बहिर्भूतः स्वसैन्यस्य, यद्येष परिपालनम् । कुर्यात्तथापि नास्माकं, विमध्यसभवेदत्यन्तबाधकः ॥ ५०४ ॥ अस्यापि च तदेवात्र, बहिष्करणकारणम् । दृष्ट्या सह यदस्माभिरधमस्य कृतं पुरा ॥ ५०५ ॥ अकालहीनं भो देव!, तत्तदेव विधीयताम् । यावन्नाकामति प्राज्य, राज्यमेष विमध्यमः॥५०६॥युग्मम् । एवं भवतु तेनोक्ते, महामोहमहीभुजा । बहिष्कृतः स तैश्चौरैः, सर्वैदृष्टिपुरःसरैः ।। ५०७ ॥ वशीकृतं च तद्राज्यं, किं तु नात्यन्तपीडितम् । चारित्रधर्मसैन्यं च, मनागेतैरपे४क्षितम् ॥ ५०८ ॥ स तु राजा बहिर्भूतो, मानसन्मानपूजनैः । तदात्मसैन्यं राज्यं च, पालयत्यन्तराऽन्तरा ॥ ५०९॥ प्रविभागेण: संस्थाप्य, सोऽहोरात्रं क्षणे क्षणे । धत्ते धर्मार्थकामेषु, कार्य कालोचितं सदा ॥ ५१०॥ तेऽपि चारित्रधर्माद्या, मनागाप्यायितास्तथा। तेन राज्ञा न कुर्वन्ति, शोकाक्रन्दनरोदनम् ॥ ५११ ॥ राजानो ब्राह्मणाद्याश्च, ये सदाचारवर्तिनः । त्रिवर्गसाधनोयुक्तास्तेषां रूपं भजत्यसौ ॥ ५१२ ॥ अथ तत्तादृशं कुर्वन्निजराज्यं स पार्थिवः । जनमध्ये गतः श्लाघां, धन्योऽयं पुण्यकर्मकः ॥ ५१३ ॥ स कर्मपरिणामाख्यो, यः पिता तस्य भूपतेः । असावपि मनाक तुष्टो, दृष्ट्वा तत्तस्य चेष्टितम् ॥ ५१४ ॥ ततस्तं पशुसंस्थाने, कदाचित्सुखकारणे । कदाचिन्मानवावासे, नगरे सुखपूरिते ।। ५१५ ॥ कदाचिच्च सुखोपेते, नगरे विबुधालये । प्रापयत्येष राजेन्द्रो, मयेत्याकर्णितं तदा ॥ ५१६ ॥ युग्मम् । अथातीते पुनस्तत्र, भुक्तराज्ये विमध्यमे । जातोऽन्तरङ्गराज्येऽसौ, मध्यमो नाम भूपतिः ॥ ५१७ ॥ विहितं घोषणं मध्यमजातः, पर्यालोचो महीभुजाम् । निवेदिताश्च तस्यापि, गुणास्तेनैव मत्रिणा ॥ ५१८ ॥ कथं ?-अयं राजा महाराज!, मध्यमः सत- चरितं तोद्यतः । धर्मार्थकाममोक्षेषु, पुरुषार्थेषु भावतः ॥ ५१९ ॥ परमार्थ तथाप्येकं, मन्यते मोक्षमजसा । तद्धेतुभूतं धर्म च, न प्रसक्तो- ५९३॥ |ऽर्थकामयोः ॥ ५२० ॥ उदारसत्त्वविरहात्केवलं धनकामयोः । प्रवृत्तिं कुरुते नित्यं, तदोषांश्चिन्तयन्नपि ॥ ५२१ ॥ बन्धुपुत्रकलत्रा Jan Education in For Private Personal use only jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy