________________
उपमितौ
अधम
चरितं
॥५९२॥
कलय्य लोकेऽसौ, लाघवं चात्मनोऽतुलम् । कार्याकार्यविचारेण, रहितात्मा स पार्थिवः ॥ ४८५ ॥ तां मातङ्गी समादाय, सद्रूपालोकलम्पटः । तद्वक्रमीक्षमाणोऽसौ, नान्यत्किचन बुध्यते ॥ ४८६ ॥ ततस्तं तादृशं वीक्ष्य, वृत्तान्तं सोऽधमो नृपः । बहिरङ्गजनेऽप्युचैनिन्दायाः पात्रतां गतः ॥ ४८७ ॥ समस्तैरपि संभूय, स गाढाकार्यकारकः । राज्यान्निष्कासितो लोकैर्गुणाः सर्वत्र पूजिताः ॥४८८ ॥ ततो दुःखशतापूर्णः, क्लिशित्वाऽसौ बहिर्जने । प्राप्तो निकृष्टराजीयामवस्था पापिपजरे ॥ ४८९ ॥ स कर्मपरिणामेन, राज्यं दुष्टं कृतं त्वया । इत्युक्त्वा पीड्यते दुःखैरनन्तैस्तत्र रोषतः॥ ४९० ।। ततो मया चिन्तितं-इदमप्यस्य संजातमधमस्येदृशं फलम् । अज्ञानदोषतो हन्त, नान्यत्किंचन कारणम् ॥ ४९१ ॥ तृतीयवत्सरे देव!, जातो राजा विमध्यमः । राज्ये तत्रान्तरङ्गे च, विहितं घोषणादिकम् ।। ४९२ ।। समस्तोऽपि च वृत्तान्तः, पर्यालोचादिकस्तथा । ततः सैन्यद्वये जातो, यथाऽनन्तरराज्ययोः ॥ ४९३ ॥ ततश्च-महामोहमहाराजो, मत्रिणं प्रत्यभाषत । आर्य ! वर्णय कीदृक्षो, गुणैरेष विमध्यमः ॥ ४९४ ।। मत्रिणोक्तं महाराज!, वत्सलोऽयं नराधिपः । अस्माकं किं तु चारित्रधर्मसैन्यमपीक्षते ॥ ४९५ ॥ तथाहि-यथाऽस्मान्मन्यते चित्ते, बन्धुभूतानयं सदा । तथाऽनुवर्तयत्येष, सैन्यं तदपि पार्थिवः ॥ ४९६ ॥ केवलं पक्षपातोऽस्य, गाढमस्मासु दृश्यते । चारित्रधर्मसैन्ये तु, राजाऽयं शिथिलादरः ॥ ४९७ ॥ इहलोके यथाऽऽसक्तं, चित्तमस्य महीभुजः । तथाऽन्तराऽन्तरा किंचित्परलोकमपीक्षते ॥ ४९८ ॥ प्रतिबद्धं मनो नियं, यथाऽस्य धनकामयोः । तथाऽनुशीलयत्येष, धर्मकार्यमपि कचित् ॥ ४९९ ॥ भद्रकः सर्वदेवानां, स्तोता सर्वतपखिनाम् । दानशीलपरः किंचित् , न सच्छास्त्रविदूषकः ।।५००॥ तदेवं देव! राजायं, नास्माकमतिसुन्दरः। यस्माच्चारित्रधर्मादिसैन्यं जानाति किंचन ॥५०१॥ तदत्रावहिवैर्भाव्यं, देवास्माभिः प्रयोजने । प्रवेशोऽस्यापि राज्येऽत्र, न दातव्यः कथंचन ॥ ५०२ ॥ प्रविष्टो हि भवेदेष, खसैन्यपरि
विमध्यमचरितं
॥५९२॥
Jain Education in
For Private Personel Use Only
K
aw.jainelibrary.org