SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ उपमिती अधमचरितं ॥५९१॥ म्भकल्पनां प्रतिपद्यते ॥ ४६६ ॥ विलासलासबिब्बोकहावभावविराजितम् । रूपाढ्यं सुन्दरीसारं, प्रेक्षणं वीक्ष्य मोदते ॥ ४६७ ॥1 विचित्रचित्रविन्यासांस्तथाऽन्यच्च सकौतुकम् । सोऽधमो रूपमुत्पश्यन्नानन्दमवगाहते ॥ ४६८ ॥ चिन्तयति च-अहो सुखमहो स्वर्ग-1 स्तथाऽहो पुण्यकर्मता । यस्य मे जायते नियं, साश्चर्य रूपदर्शनम् ॥ ४६९ ॥ ततो रात्रिन्दिवं मूढो, रूपदर्शनलोलुपः । सोऽन्यत्किंचिन्न जानीते, कोऽहं किं वा मया कृतम् ॥ ४७० ॥ तथा च वर्तमानस्य, स्पर्शनाद्यैस्तथाऽपरैः । महामोहादिभिस्तस्य, खं स्वं वीर्य निदर्शितम् ॥ ४७१ ॥ अथ तैलृप्तसंज्ञानः, सोऽधमो निजराज्यतः । बहिर्भूतः कृतो देव!, प्रसक्तो धनकामयोः ॥ ४७२ ॥ न ज्ञातं तेन तद्राज्यं, निजं न च महाबलम् । न समृद्धिर्न वा तेन, राजाऽहमिति निश्चितम् ॥ ४७३ ।। गृहीता बन्धुबुद्ध्या च, सा दृष्टिस्तेन योगिनी । महामोहमहासैन्यं, सुहृद्भुतं निरीक्षितम् ॥ ४७४ ।। ततश्चरटसैन्येन, तेन तद्राज्यमजसा । वशीकृत्य हताः सर्वे, तस्यानुचरपार्थिवाः ॥ ४७५ ॥ स तु राज्यपरिभ्रष्टः, स्वीयबान्धववर्जितः । रिपुसैन्यवृतोऽप्युच्चैर्मन्यते सुखमात्मनः ॥ ४७६ ॥ दुःखरूपं पुनर्दुःखकारणं दुःखजन्मकम् । मन्यते हि विपर्यासाच्छब्दाद्यनुभवं सुखम् ॥ ४७७ ।। राजसेवकशैलूषबन्दियूतकरोपमः । संजातो बहिरङ्गेषु, स देशेषु महीपतिः ॥ ४७८ ।। षिड्गप्रायो महापापः, कृपास्थानं विवेकिनाम् । नास्तिको हतमर्यादो, धर्मानुष्ठानदूषकः ॥ ४७९ ॥ मन्यते धार्मिकं लोकं, सहास्यं भोगवञ्चितम् । विदग्धं मन्यते मोहादर्थकामपरायणम् ॥ ४८० ॥ चिन्तयति च यस्य रूपेक्षणं नित्यं, गृहिणी वशवर्तिनी। धनं च भूरि तस्येह, मोक्षः शेषा विडम्बनाः॥४८१॥ एवं च बहिरङ्गेषु, स देशेषु विचेष्टते । राजा विलुप्तसर्वस्वः, सुखंमन्यस्तथापि च ॥ ४८२ ॥ अन्यदा तेन मातङ्गी, वीक्षिता रूपशालिनी । तस्यामध्युपपन्नश्च, ततोऽसौ | | दृष्टिदोषतः॥ ४८३ ॥ ततश्च-अनालोच्य कुलस्योच्चैः, कलङ्कमतिदारुणम् । अदृष्ट्वा पापसङ्घातमकृत्वाऽऽयतिवीक्षणम् ।। ४८४ ॥ अना R-CHAMARCANESCARSA ॥५९१॥ Jain Education Inter For Private & Personel Use Only www.jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy