SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ उपमिती अधमचरितं ॥५९१॥ म्भकल्पनां प्रतिपद्यते ॥ ४६६ ॥ विलासलासबिब्बोकहावभावविराजितम् । रूपाढ्यं सुन्दरीसारं, प्रेक्षणं वीक्ष्य मोदते ॥ ४६७ ॥1 विचित्रचित्रविन्यासांस्तथाऽन्यच्च सकौतुकम् । सोऽधमो रूपमुत्पश्यन्नानन्दमवगाहते ॥ ४६८ ॥ चिन्तयति च-अहो सुखमहो स्वर्ग-1 स्तथाऽहो पुण्यकर्मता । यस्य मे जायते नियं, साश्चर्य रूपदर्शनम् ॥ ४६९ ॥ ततो रात्रिन्दिवं मूढो, रूपदर्शनलोलुपः । सोऽन्यत्किंचिन्न जानीते, कोऽहं किं वा मया कृतम् ॥ ४७० ॥ तथा च वर्तमानस्य, स्पर्शनाद्यैस्तथाऽपरैः । महामोहादिभिस्तस्य, खं स्वं वीर्य निदर्शितम् ॥ ४७१ ॥ अथ तैलृप्तसंज्ञानः, सोऽधमो निजराज्यतः । बहिर्भूतः कृतो देव!, प्रसक्तो धनकामयोः ॥ ४७२ ॥ न ज्ञातं तेन तद्राज्यं, निजं न च महाबलम् । न समृद्धिर्न वा तेन, राजाऽहमिति निश्चितम् ॥ ४७३ ।। गृहीता बन्धुबुद्ध्या च, सा दृष्टिस्तेन योगिनी । महामोहमहासैन्यं, सुहृद्भुतं निरीक्षितम् ॥ ४७४ ।। ततश्चरटसैन्येन, तेन तद्राज्यमजसा । वशीकृत्य हताः सर्वे, तस्यानुचरपार्थिवाः ॥ ४७५ ॥ स तु राज्यपरिभ्रष्टः, स्वीयबान्धववर्जितः । रिपुसैन्यवृतोऽप्युच्चैर्मन्यते सुखमात्मनः ॥ ४७६ ॥ दुःखरूपं पुनर्दुःखकारणं दुःखजन्मकम् । मन्यते हि विपर्यासाच्छब्दाद्यनुभवं सुखम् ॥ ४७७ ।। राजसेवकशैलूषबन्दियूतकरोपमः । संजातो बहिरङ्गेषु, स देशेषु महीपतिः ॥ ४७८ ।। षिड्गप्रायो महापापः, कृपास्थानं विवेकिनाम् । नास्तिको हतमर्यादो, धर्मानुष्ठानदूषकः ॥ ४७९ ॥ मन्यते धार्मिकं लोकं, सहास्यं भोगवञ्चितम् । विदग्धं मन्यते मोहादर्थकामपरायणम् ॥ ४८० ॥ चिन्तयति च यस्य रूपेक्षणं नित्यं, गृहिणी वशवर्तिनी। धनं च भूरि तस्येह, मोक्षः शेषा विडम्बनाः॥४८१॥ एवं च बहिरङ्गेषु, स देशेषु विचेष्टते । राजा विलुप्तसर्वस्वः, सुखंमन्यस्तथापि च ॥ ४८२ ॥ अन्यदा तेन मातङ्गी, वीक्षिता रूपशालिनी । तस्यामध्युपपन्नश्च, ततोऽसौ | | दृष्टिदोषतः॥ ४८३ ॥ ततश्च-अनालोच्य कुलस्योच्चैः, कलङ्कमतिदारुणम् । अदृष्ट्वा पापसङ्घातमकृत्वाऽऽयतिवीक्षणम् ।। ४८४ ॥ अना R-CHAMARCANESCARSA ॥५९१॥ Jain Education Inter For Private & Personel Use Only www.jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy