SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ उपमिती प. ६-प्र. ॥५९०॥ QUISESEISESS* बहिष्कृतौ । उपायः कोऽपि निःशेष, तमार्यो वक्तुमर्हति ॥ ४४८ ॥ ततः प्राह महामश्री, देव! विज्ञापितं मया । यथाऽसावधमो ला अधम| राजा, प्रतिबद्धोऽर्थकामयोः ॥ ४४९ ॥ ततः सर्वेऽपि संभूय, वयं तं धनकामयोः । आसक्तं बाह्यदेशेषु, धारयामो बहिष्कृतम् ॥४५०॥ चरितं ततः-एवं विधीयतामार्य!, महामोहेन जल्पितम् । बहिष्करणकामेन, सज्जीभूताश्च तस्य ते ॥ ४५१ ॥ अथास्ति मत्रिणस्तस्य, सुता परमयोगिनी । दृष्टि म विशालाक्षी, सा तत्रेदमभाषत ॥ ४५२ ॥ देव! यूयं जिताशेषदेवदानवमानुपाः । सोऽधमः कियती मात्रा ?, | यतस्तं प्रति गामुकाः ॥ ४५३ ॥ तद्दीयतां ममादेशो, येन तं वशवर्तिनम् । एकाप्यहं करोम्येषा, युष्माकं किं विचिन्तया? ॥ ४५४॥ राज्यभ्रष्टं बहिर्भूतं, भवतां कर्मकारकम् । स्वसैन्यरुष्टं तं देव!, करिष्यामि न संशयः ॥ ४५५ ।। अन्यञ्च यत्र मे प्रभवो देव!, तत्रैते सहचारिणः । स्पर्शनाद्या भवन्त्येव, सोदर्याः स्वीयमानुषाः ॥ ४५६ ॥ सन्निधानं भवत्येव, भावतो भवतामपि । सर्वेषां तत्र | पुरुष, यो वशीक्रियते मया ॥ ४५७ ॥ तथाहि-धनकामविहीनोऽपि, भवद्भिर्युक्तया मया। निकृष्टोऽपि पुरा देव!, प्रापितः पापिपञ्जरम् ॥ ४५८ ॥ तद्दीयतां ममादेशो, मा विलम्बो विधीयताम् । गच्छाम्यहं बहिष्कर्तुमधर्म तं नरेश्वरम् ॥ ४५९ ॥ ततो योग्येत्यनुज्ञाता, महामोहमहीभुजा । सा दृष्टिः प्रगता तत्र, यत्रास्ते सोऽधमो नृपः ॥ ४६० ।। इतश्च-वृत्तान्तं तादृशं श्रुत्वा, सर्व तद्भू| मिमण्डलम् । चारित्रधर्मसैन्यं च, जातं त्रस्तप्रकम्पितम् ॥ ४६१ ॥ निकृष्टराज्ये ये जाताः, शोकाक्रन्दादयः पुरा । अधमस्यापि ते राज्ये, संपन्नाः साधुमण्डले ॥ ४६२ ।। अथ सा योगिनी गत्वा, कृतान्तर्धानविभ्रमा । अधमस्य नरेन्द्रस्य, तस्य लोचनयोः स्थिता ॥ ४६३ ॥ ततश्च तद्बलेनासौ, रूपालोकनलोलुपः । संजातोऽन्यन्न जानीते, संसारे सुखकारणम् ।। ४६४ ॥ स्त्रीणां कटाक्षविक्षेपविभ्रमेङ्गितसंस्थितम् । लावण्यं हसितं लीला, लोलचक्षुर्निरीक्षते ॥ ४६५ ॥ नेत्रवक्रस्तनाद्येषु, तदङ्गेषु च मूढधीः । नीलाब्जेन्दुलसत्कु-8 Jain Education Intern For Private & Personel Use Only Drjainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy