SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ उपमिती प. ६-प्र. ॥५९०॥ QUISESEISESS* बहिष्कृतौ । उपायः कोऽपि निःशेष, तमार्यो वक्तुमर्हति ॥ ४४८ ॥ ततः प्राह महामश्री, देव! विज्ञापितं मया । यथाऽसावधमो ला अधम| राजा, प्रतिबद्धोऽर्थकामयोः ॥ ४४९ ॥ ततः सर्वेऽपि संभूय, वयं तं धनकामयोः । आसक्तं बाह्यदेशेषु, धारयामो बहिष्कृतम् ॥४५०॥ चरितं ततः-एवं विधीयतामार्य!, महामोहेन जल्पितम् । बहिष्करणकामेन, सज्जीभूताश्च तस्य ते ॥ ४५१ ॥ अथास्ति मत्रिणस्तस्य, सुता परमयोगिनी । दृष्टि म विशालाक्षी, सा तत्रेदमभाषत ॥ ४५२ ॥ देव! यूयं जिताशेषदेवदानवमानुपाः । सोऽधमः कियती मात्रा ?, | यतस्तं प्रति गामुकाः ॥ ४५३ ॥ तद्दीयतां ममादेशो, येन तं वशवर्तिनम् । एकाप्यहं करोम्येषा, युष्माकं किं विचिन्तया? ॥ ४५४॥ राज्यभ्रष्टं बहिर्भूतं, भवतां कर्मकारकम् । स्वसैन्यरुष्टं तं देव!, करिष्यामि न संशयः ॥ ४५५ ।। अन्यञ्च यत्र मे प्रभवो देव!, तत्रैते सहचारिणः । स्पर्शनाद्या भवन्त्येव, सोदर्याः स्वीयमानुषाः ॥ ४५६ ॥ सन्निधानं भवत्येव, भावतो भवतामपि । सर्वेषां तत्र | पुरुष, यो वशीक्रियते मया ॥ ४५७ ॥ तथाहि-धनकामविहीनोऽपि, भवद्भिर्युक्तया मया। निकृष्टोऽपि पुरा देव!, प्रापितः पापिपञ्जरम् ॥ ४५८ ॥ तद्दीयतां ममादेशो, मा विलम्बो विधीयताम् । गच्छाम्यहं बहिष्कर्तुमधर्म तं नरेश्वरम् ॥ ४५९ ॥ ततो योग्येत्यनुज्ञाता, महामोहमहीभुजा । सा दृष्टिः प्रगता तत्र, यत्रास्ते सोऽधमो नृपः ॥ ४६० ।। इतश्च-वृत्तान्तं तादृशं श्रुत्वा, सर्व तद्भू| मिमण्डलम् । चारित्रधर्मसैन्यं च, जातं त्रस्तप्रकम्पितम् ॥ ४६१ ॥ निकृष्टराज्ये ये जाताः, शोकाक्रन्दादयः पुरा । अधमस्यापि ते राज्ये, संपन्नाः साधुमण्डले ॥ ४६२ ।। अथ सा योगिनी गत्वा, कृतान्तर्धानविभ्रमा । अधमस्य नरेन्द्रस्य, तस्य लोचनयोः स्थिता ॥ ४६३ ॥ ततश्च तद्बलेनासौ, रूपालोकनलोलुपः । संजातोऽन्यन्न जानीते, संसारे सुखकारणम् ।। ४६४ ॥ स्त्रीणां कटाक्षविक्षेपविभ्रमेङ्गितसंस्थितम् । लावण्यं हसितं लीला, लोलचक्षुर्निरीक्षते ॥ ४६५ ॥ नेत्रवक्रस्तनाद्येषु, तदङ्गेषु च मूढधीः । नीलाब्जेन्दुलसत्कु-8 Jain Education Intern For Private & Personel Use Only Drjainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy