SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ उपमिती लब्धस्तेन तस्करैः । हारितं च निजं राज्यं, समृद्धं सैन्यमुत्तमम् ।। ४३१ ॥ स्थितश्चेहापि दुःखार्तों, राज्यभ्रष्टो बहिष्कृतः । द्वितीयं ष. ६-प्र. पीड्यते तत्र, स निकृष्टो निरर्थकम् ॥ ४३२ ॥ तदस्य सकलं हन्त, निकृष्टस्य दुरात्मनः । अज्ञानदोषतो जातमिदं दुःखकदम्बकम् | IM॥ ४३३ ॥ (त्रिभिर्विशेषकम् ) तथाहि-यद्यात्मानं विजानीत, तद्राज्यं रत्नपूरितम् । चारित्रधर्मसैन्यं च, प्रपद्येत सुहृत्तमम् ॥ ४३४॥ ॥५८९॥ महामोहादिसैन्यं च, यद्यसौ शत्रुसन्निभम् । अवगच्छेत्ततस्तस्य, कुतो दुःखपरम्परा? ॥ ४३५ ॥ यतः-हत्वा चरटसङ्घातं, नयपौरुषसंयुतः । सदा निष्कण्टकं राज्यं, स भुजीत न संशयः ॥ ४३६ ॥ अथवा-किं तस्य चिन्तयाऽस्माकं ?, राजादेशो मया परम।। कर्तव्योऽतः प्रपश्यामि, द्वितीयस्यापि चेष्टितम् ॥ ४३७ ॥ ततोऽधमस्य तद्राज्यं, संजातं देव! वत्सरे । द्वितीये घोषितं चोच्चैर्डिण्डिमेन B अधमयथा पुरा ।। ४३८ ॥ समस्तोऽपि च संपन्नो, वृत्तान्तो यो निवेदितः । निकृष्टराज्ये सोऽस्यापि, राज्ये सैन्यद्वये तथा ॥ ४३९ ॥ व चरितं णिताश्च गुणास्तस्य, महामोहस्य मत्रिणा । यादृशाः परिषन्मध्ये, तानहं ते निवेदये ॥ ४४० ॥ उक्तं हि तदा विषयाभिलाषेण मन्त्रिणा -यथैवंविधोऽसावधमराजो जनितः कर्मपरिणामेन निजपित्रा, यदुत-इहलोकपरो गाढं, परलोकपराङ्मुखः । धर्ममोक्षकृतद्वेषः, प्रतिबद्धोऽर्थकामयोः ॥ ४४१ ।। शब्द रूपे रसे गन्धे, स्पर्श चात्यन्तलोलुपः । तपोदानदयाशीलब्रह्मचर्यविदूषकः ॥ ४४२ ॥ अत्यन्तवत्सलोऽस्माकं, सदैवादेशकारकः । चारित्रधर्मसैन्यस्य, विद्विष्टो वैरिसन्निभः ॥ ४४३ ॥ न चायमपि जानीते, राज्यं नापि निजी बलम् । न स्वरूपं न चास्माकं, तस्कराकारधारिताम् ।। ४४४ ॥ ततश्च-अधमस्यापि यद्राज्यं, तद्राज्यं परमार्थतः । अस्माकमेव संपन्नं, देव! नास्त्यत्र संशयः ॥ ४४५ ॥ केवलं न प्रवेशोऽस्य, दातव्यो भुक्तिमण्डले । प्रविष्टो हि विजानीयादास्माकीनं विचेष्टितम् ॥ ४४६॥ अस्ति किंचनमात्रं हि, वीर्यमस्य दुरात्मनः । बहिष्करणमेवातो, युक्तं नात्र प्रवेशनम् ॥ ४४७ ॥ ततः प्राह महामोहो, यः स्यादस्य 5॥५८९॥ Jain Education inte For Private & Personel Use Only Taw.jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy