SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ उपमिती लब्धस्तेन तस्करैः । हारितं च निजं राज्यं, समृद्धं सैन्यमुत्तमम् ।। ४३१ ॥ स्थितश्चेहापि दुःखार्तों, राज्यभ्रष्टो बहिष्कृतः । द्वितीयं ष. ६-प्र. पीड्यते तत्र, स निकृष्टो निरर्थकम् ॥ ४३२ ॥ तदस्य सकलं हन्त, निकृष्टस्य दुरात्मनः । अज्ञानदोषतो जातमिदं दुःखकदम्बकम् | IM॥ ४३३ ॥ (त्रिभिर्विशेषकम् ) तथाहि-यद्यात्मानं विजानीत, तद्राज्यं रत्नपूरितम् । चारित्रधर्मसैन्यं च, प्रपद्येत सुहृत्तमम् ॥ ४३४॥ ॥५८९॥ महामोहादिसैन्यं च, यद्यसौ शत्रुसन्निभम् । अवगच्छेत्ततस्तस्य, कुतो दुःखपरम्परा? ॥ ४३५ ॥ यतः-हत्वा चरटसङ्घातं, नयपौरुषसंयुतः । सदा निष्कण्टकं राज्यं, स भुजीत न संशयः ॥ ४३६ ॥ अथवा-किं तस्य चिन्तयाऽस्माकं ?, राजादेशो मया परम।। कर्तव्योऽतः प्रपश्यामि, द्वितीयस्यापि चेष्टितम् ॥ ४३७ ॥ ततोऽधमस्य तद्राज्यं, संजातं देव! वत्सरे । द्वितीये घोषितं चोच्चैर्डिण्डिमेन B अधमयथा पुरा ।। ४३८ ॥ समस्तोऽपि च संपन्नो, वृत्तान्तो यो निवेदितः । निकृष्टराज्ये सोऽस्यापि, राज्ये सैन्यद्वये तथा ॥ ४३९ ॥ व चरितं णिताश्च गुणास्तस्य, महामोहस्य मत्रिणा । यादृशाः परिषन्मध्ये, तानहं ते निवेदये ॥ ४४० ॥ उक्तं हि तदा विषयाभिलाषेण मन्त्रिणा -यथैवंविधोऽसावधमराजो जनितः कर्मपरिणामेन निजपित्रा, यदुत-इहलोकपरो गाढं, परलोकपराङ्मुखः । धर्ममोक्षकृतद्वेषः, प्रतिबद्धोऽर्थकामयोः ॥ ४४१ ।। शब्द रूपे रसे गन्धे, स्पर्श चात्यन्तलोलुपः । तपोदानदयाशीलब्रह्मचर्यविदूषकः ॥ ४४२ ॥ अत्यन्तवत्सलोऽस्माकं, सदैवादेशकारकः । चारित्रधर्मसैन्यस्य, विद्विष्टो वैरिसन्निभः ॥ ४४३ ॥ न चायमपि जानीते, राज्यं नापि निजी बलम् । न स्वरूपं न चास्माकं, तस्कराकारधारिताम् ।। ४४४ ॥ ततश्च-अधमस्यापि यद्राज्यं, तद्राज्यं परमार्थतः । अस्माकमेव संपन्नं, देव! नास्त्यत्र संशयः ॥ ४४५ ॥ केवलं न प्रवेशोऽस्य, दातव्यो भुक्तिमण्डले । प्रविष्टो हि विजानीयादास्माकीनं विचेष्टितम् ॥ ४४६॥ अस्ति किंचनमात्रं हि, वीर्यमस्य दुरात्मनः । बहिष्करणमेवातो, युक्तं नात्र प्रवेशनम् ॥ ४४७ ॥ ततः प्राह महामोहो, यः स्यादस्य 5॥५८९॥ Jain Education inte For Private & Personel Use Only Taw.jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy