________________
उपमितौ
प. ६-प्र.
ट्रवृत्त
॥५८८॥
लोकाः शोकपूरिताः । श्रुत्वा निकृष्टराज्यं तत्संजाता दैन्यविह्वलाः ॥ ४१३ ॥ अथ तत्तादृशं वीक्ष्य, सैन्ययोर्महदन्तरम् । आनन्दशो
निकृछाकसम्पत्तेर्जातं मम कुतूहलम् ॥ ४१४ ॥ यदुत-क वर्तते निकृष्टोऽसौ, राजा यस्येदृशा गुणाः । द्रक्ष्यामीहागतं यद्वा, राज्यार्थ तं *दिपुरुष नरेश्वरम् ॥ ४१५ ॥ यावत्तस्य वराकस्य, राज्ये तत्र प्रवेशनम् । न दत्तमेव तैर्देव!, महामोहादितस्करैः ।। ४१६ ॥ किं तर्हि ? - स्वयमेव वशीकृत्य, नि:शेष भूमिमण्डलम् । चारित्रधर्मसैन्यं च, विनिर्जित्य विनाश्य च ॥ ४१७ ॥ तदन्तरङ्गतद्राज्यं, महामोहादितस्करैः । अधिष्ठितं बहिष्कृत्य, निकृष्टं स्वयमेव भोः ॥४१८॥ युग्मम् ॥ ततस्तत्तादृशं दृष्ट्वा, देव! सर्व विसंस्थुलम् । गतोऽहं बहिरङ्गेषु, तं दिदृक्षुर्जनेषु भोः॥ ४१९ ॥ अथ दृष्टो मया देव!, स निकृष्टो नराधिपः । बहिरङ्गेषु देशेषु, राज्यभ्रष्टः सुदुःखितः ॥ ४२०॥ सच कीदृशः?-पापकर्मरतो दीनः, क्रूरात्मा लोकनिन्दितः । निःशेषपुरुषार्थेभ्यः, परिभ्रष्टो नराधमः ॥ ४२१ ॥ स्फुटिताङ्गो मलक्लिन्नः, पापपुलकसन्निभः । स निकृष्टो मया दृष्टः, परप्रेष्यकरः सदा ॥ ४२२ ॥ स्वीयराज्यपरिभ्रष्टो, लोके दुर्भगतां गतः। यो गृहे परिभूतोऽत्र, स बहिः परिभूयते ॥ ४२३ ।। विक्रीय तृणकाष्ठानि, कृत्वा वा हलखेटनम् । हत्वा वा जन्तुसवातं, नीत्वा वा लेखमालिकाम् ॥ ४२४ ॥ विधाय निन्द्यकर्माणि, सोढाऽऽक्रोशशतानि च । स निकृष्टः करोत्युञ्चैर्दुष्पूरोदरपूरणम् ॥४२५।। युग्मम्॥ये केचिहुःखिताः पापाः, क्रूरकर्मविधायिनः । लोके मातङ्गडोम्बाद्यास्तेषां रूपं भजत्यसौ ॥ ४२६ । तथापि वल्लभास्तेऽस्य, महामोहादितस्कराः । चारित्रधर्मसैन्यस्य, नामाप्येष न बुध्यते ॥ ४२७॥ किं च-दुष्पालितं कृतं राज्यं, भवतेत्यस्य चोपरि । स कर्मपरिणामाख्यो, राजा रोषमुपागतः ॥ ४२८ ॥ ततोऽस्ति भवचक्रे यदुष्करं पापिपञ्चरम् । नीतस्तत्र निकृष्टोऽसौ, तेन राज्ञा वराककः ॥ ४२९ ॥ पीड्यते च महादुःखैस्तत्रानन्तैरनेकशः । स कर्मपरिणामेन, निकृष्ट इति विश्रुतम् ॥ ४३० ॥ ततो मया चिन्तितं-एकं राज्ये प्रवेशोऽपि, न |
स
५
८॥
JainEducational
For Private
Personel Use Only
T
ww.jainelibrary.org