________________
उपमितौ प.६-अ.
निकृष्टादिपुरुषष
वृत्तं
॥५८६॥
जानीम इत्येवं, जाताश्चिन्तातुरा वयम् ।। ३८१ ।। तदेष देव! संजातः, क्षोभो नो निर्निमित्तकः । वृथाऽलमाकुलीभूता, वयमत्र प्रयोजने ॥ ३८२ ॥ यतः–स कर्मपरिणामेन, निकृष्टः स्वयमेव मोः । जनितस्तादृशो यादृग् , न क्षमोऽस्मत्प्रपीडने ॥३८३॥ किं तर्हि ?
-वशवर्ती सदाऽस्माकमाशानिर्देशकारकः । अस्मत्पदातिवर्गेऽपि, किङ्करः कर्मकारकः ।। ३८४ ॥ तत्कर्मपरिणामेन, चेत्तस्मै विनियोजितम् । इदं राज्यं ततो देव!, वयमेवात्र नायकाः ।। ३८५ । लब्धे निष्कण्टके राज्ये, तदेवं देव! भावतः । हर्षस्थाने किमस्माभिरातुरैर्बत भूयते ? ॥ ३८६ ॥ अथ प्राह महामोहो, द्रुतमार्य! निवेद्यताम् । स कर्मपरिणामेन, कीदृशो जनितः किल! ॥ ३८७ ॥ विषयाभिलाषेणोक्तं देवाकर्णय-कुरूपो दुर्भगः क्रूरः, परलोकपराङ्मुखः । धर्मार्थकाममोक्षैश्च, दूरतः परिवर्जितः ॥ ३८८ ।। गुरूणां निन्दकः पापो, देवविद्वेषकारकः । विशुद्धाध्यवसायस्य, गन्धेनापि विनाकृतः ॥ ३८९ ॥ जगदुद्वेगहेतुश्च, साक्षादिव विपाङ्करः । निःशेपदोषसङ्घस्य, स निकृष्टो निकेतनम् ॥ ३९०।। गाम्भीयौदार्यशौण्डीर्यधैर्यवीर्यादयो गुणाः । ततो निकृष्टान्नंष्ट्वैव, दूराहूरतरं गताः ॥३९१॥ स ईदृशो महाराज्ये, लब्धेऽप्यत्राधमाधमः । निःशेषशक्तिशून्यात्मा, किमस्माकं करिष्यति ॥ ३९२ ।। अन्यञ्च-न जानीते वराकोऽसौ, राज्यं नापि निजं बलम् । न समृद्धिं न वा मूढः, स्वरूपमपि तत्त्वतः ॥ ३९३ ॥ न चास्मान् गणयत्येष, चरटान् राज्यहारकान् । मन्यते बन्धुभूतांश्च, स्वामिभूतांश्च भावतः ।। ३९४ ॥ तदेवं संस्थिते देव!, विहायाकुलतां हृदि । महावर्धनकं युक्तं, विधातुं जनतुष्टये ॥ ३९५ ॥ ततो यदादिशत्यार्य !, इत्युक्त्वा हर्षनिर्भरः । तदेव कारयत्युच्चैर्महामोहनराधिपः ॥ ३९६ ॥ अथ तच्चरितं लोके, निःशेष मत्रिभाषितम् । ततो वर्धनके तुष्टास्तत्र नृत्यन्ति ते जनाः ।। ३९७ ॥ गायन्ति च महामोहराजपादानुजीविनः । ज्ञात्वा निकटराज्यं तन्निर्भरानन्दपूरिताः ॥ ३९८ ॥ कथं!-येनेदमवाप्तमीदृशं, राज्यमनन्तविभूतिपूरितम् । सोऽस्माकमहो वशे स्थितो, नृपतिः
॥५८६॥
Jan Education
ForPrivate sPersonal use Only
H
ainelibrary.org