SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ उपमिती प.६-प्र. ॥५८५॥ वृत्तं &॥३७५ ॥ ततस्तेषां भद्र! कर्मपरिणाममहाराजपुत्राणामनन्तरूपाणां तद्राज्यं केषांचिद्दुःखकारणं केषांचित्सुखकारणमतो विशेषेणानेक रूपं भवति, अप्रबुद्धेनोक्तं-भदन्त ! तेषां कर्मपरिणामसुतानां तद्राज्यं कुर्वतां कस्य किं संपन्नमिति श्रोतुमिच्छामि ?, सिद्धान्तेनोक्तंनिवेदितमेव भद्राय यथाऽनन्तास्ते कर्मपरिणामपुत्राः ततः कियतां सम्बन्धि स्वरूपं भद्राय कथयिष्यते?, तथापि यदि महत्कुतूहलं भ-14 निकृष्टाद्रस्य ततोऽस्त्येको व्यापकः कथनोपायः, तेनैव कथयिष्ये, अप्रबुद्धेनोक्तं-अनुग्रहो मे, सिद्धान्तेनोक्तं-भद्र! सन्ति तस्य कर्मपरिणा- दिपुरुषषमस्य षट् पुत्राः, तद्यथा-निकृष्टोऽधमो विमध्यमो मध्यम उत्तमो वरिष्ठश्चेति, तेभ्योऽहं कथंचिद्वचनविन्यासेन कर्मपरिणाममहाराजमभ्यथ्यकैकं संवत्सरं राज्यं दापयिष्यामि, ततो भवता तेषां षण्णामपि राज्यानां निरीक्षणार्थ प्रहेतव्योऽन्तरङ्गो वितर्को नामायमात्मीयोऽनुचरः, ततस्तेषु षट्सु राज्येषु दृष्टेषु भवतः सर्वोऽप्यर्थः प्रतीतो भविष्यति, अप्रबुद्धेनोक्तं यदाज्ञापयति भगवान् , ततोऽनुष्ठितं सिद्धान्तेन सर्व यथोक्तं, प्रहितोऽप्रबुद्धेन निरीक्षणार्थ वितर्कः समागतो लजिते तन्मनुष्यजन्माभिधाने वर्षषटे दृष्टोऽप्रबुद्धः विहिता प्रतिपत्तिः, अभिहितमनेन-देव! अस्ति तावत्प्रविष्टोऽहं तस्यामन्तरङ्गराज्यभुक्तौ, श्रुतो मया नगरप्रामादिषु दीयमानस्तन्मनुष्यभावावेदनाभिधानो डिण्डिमकः, तत्र चेदमुद्घोषितं, यथा-निकृष्टो वर्तते राजा, प्राक्प्रवाहेण हे जनाः!। समाचरत कृत्यानि, तथा पिबतु खादत ॥ ३७६ ।। ततस्तां घोषणां श्रुत्वा, सर्व तद्राजमण्डलम् । कीदृक् स्यादेष राजेति, चिन्तया क्षोभमागतम् ॥ ३७७ ॥ आलोचयन्ति | राजानः, स्वस्थानेषु परस्परम् । मन्त्रयन्ति च विद्वांस, इति भोः किं भविष्यति ? ॥ ३७८ ॥ संप्रसारं प्रकुर्वन्ति, स्वगेहेषु कुटुम्बिनः । कीदृशोऽयं भवेद्राजा, निकृष्ट इति चिन्तया ॥ ३७९ ॥ ते च सर्वेऽपि संभूय, चरटा निजसंसदि । महामोहादयो देव!, पर्यालोचमु- ॥५८५॥ पागताः॥ ३८०॥ ततो विषयाभिलाषमश्रिणा महामोहनरेन्द्र प्रत्यभिहितं, यथा-किलैष राजा संजातो, निकृष्टो यत्करिष्यति । तन्न Jain Education International For Private 8 Personal Use Only Kuw.jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy